Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
समासविग्रहः ।
२३७
कं मेरु० ' तत्पुरुषः', अहानिघनं च तद् मेरुकं च अहानि० 'कर्मधारयः', तस्मिन् अहानि० । न वरा अवरा 'नञ्तत्पुरुषः', अवरा चासौ दशा च अवर० 'कर्मधारयः', अवरदशायाः अन्तः अवर० 'तत्पुरुषः', करोतीति कृत्, अवरदशान्तस्य कृत् अवर० 'तत्पुरुषः', तत्सं० अवर० ॥
९० - सुखानां ओघः सुखौघः 'तत्पुरुषः', जलानां मण्डपः जल० 'तत्पुरुषः', सुखौ एव जलमण्डपो यस्याः सा सुखौ ० 'बहुव्रीहिः', तां सुखौ० । दुरितानि एव धर्मः दुरित 'कर्मधारयः', दुरितधर्मं विभ्रतीति दुरित० 'उपपद 'समासः, तेभ्यो दुरित० । शुभं व्यजनं यस्याः सा शुभ० 'बहुव्रीहिः', तां शुभ० । लसन्ती चासौ पताका च लसत्० ‘कर्मधारयः’, अङ्कुशश्च लसत्पताका च अरि च अङ्कुश० 'इतरेतरद्वन्द्वः', इतानि अङ्कुशलसत्पताकारीणि यैः ते इता० 'बहुव्रीहिः' । जिनेषु इन्द्राः जिने० 'तत्पुरुषः', जिनेन्द्राणां चरणा जिने० 'तत्पुरुषः', जिनेन्द्रचरणा एव इन्दवः जिने० 'कर्मधारयः' । भव्याश्च ते जनाश्च भव्य ० 'कर्मधारयः', भव्यजनैः कामिता भव्य ० ' तत्पुरुषः', तां भव्य० । सता पातीति सत्पः 'उपपद 'समासः, सत्पस्य भावः सत्पता ' तत्पुरुषः', कुशलानां सत्पता कुशल ० ' तत्पुरुषः', कुशलसत्पतां कुर्वन्तीति कुशल० 'उपपद' समासः ॥
९१ – न शक्या अश० 'नञ्तत्पुरुषः', अशक्या नुतिर्यस्य तद् अश० 'बहुव्रीहिः', तद् अश० । भव एव अद्रिः भवा० 'कर्मधारयः', भवाद्रेः निर्दारणं भवा० 'तत्पुरुषः', तस्मिन् भवा० । स्वरोः उपमा यस्य तत् स्वरू० 'बहुव्रीहिः', तत् स्वरू० । न विद्यते लङ्घनं यस्य तद् अल० 'बहुव्रीहिः', तद् अल० । जिनानां पतिः जिन० ' तत्पुरुषः ', तस्य जिन० । शिवस्य स्पृहा यस्यास्ति स शिव० ' बहुव्रीहि:' । इति स्वरूपं यस्य तद् इति० 'बहुव्रीहिः', तद् इति । न विद्यते मलो यस्मिन् तद् अमलं 'बहुव्रीहिः', तद् अमलम् । रायं ददातीति रैरं 'उपपद 'समासः, तद् रैरम् ॥
९२ - जिनानां अर्चनं जिना० 'तत्पुरुषः', जिनार्चने रतः जिना० ' तत्पुरुषः ' । मदेन कलः मद० ' तत्पुरुषः', तं मद० । तुल्यः स्यदो यस्य स तुल्य० 'बहुव्रीहिः', तं तुल्य० । रतिना समानो रति० 'तत्पुरुषः', यक्षीणां जनः यक्षी० ' तत्पुरुषः', रतिसमानो यक्षीजनो यस्य स रति० 'बहुव्रीहि:' । अखिलाश्च ते यक्षाश्च अखिल० 'कर्मधारयः', अखिलयक्षाणां राट्र अखिल ० ' तत्पुरुषः' । प्रथिता कीर्तिर्यस्य स प्रथित० 'बहुव्रीहि ' । अतिशयेन उन्नमन्त्यः अत्यु० 'प्रादि' समासः, अत्युन्नमन्त्यश्च ता विपदश्च अत्यु० 'कर्मधारयः', अत्युन्नमद्विपदां नमनं अत्यु० 'तत्पुरुषः', अत्युन्नमद्विपन्नमने साधनानि अत्यु० 'तत्पुरुषः', तैः अत्यु० । न विद्यन्ते नया येषु ते अनयाः 'बहुव्रीहिः', समाश्च अनयाश्च क्षीजनानि च समा० 'इतरेतरद्वन्द्वः', अतिक्रान्तानि समानयक्षीजनानि येन सः अति० 'बहुव्रीहिः ' ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 341 342 343 344 345 346 347 348