Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२३२
समास विग्रहः ।
उरुश्रिया तेज उरु० ' तत्पुरुषः', तत् उरु० । नाना आशया यस्मिन् तत् नाना० 'बहुव्रीहिः', तत् नाना० । प्रतिगतं भयं यस्मात् स प्रति० 'बहुव्रीहिः', तं प्रति० ॥
५९–पराश्च समयाश्च पर० 'कर्मधारयः', परसमया एव रिपवः पर० 'तत्पुरुषः', तेषां पर० । दारे हेतुः दार० 'तत्पुरुषः', तस्मिन् दार० । विततश्चासौ मोहश्च वितत 'कर्मधारयः', विततमोहस्य असः वितत० 'तत्पुरुषः', विहितो विततमोहासो यस्मिन् तत् यथा स्यात् तथा विहित० 'अव्ययीभावः । उदारा हेतवो यस्मिन् तत् उदार० 'बहुव्रीहिः', तस्मिन् उदार० । जिनानां वचः जिन० ' तत्पुरुषः ', तस्मिन् जिन० । आपदां हतिः आप० 'तत्पुरुषः', तस्यां आप० । सत्या नीतिर्यस्य तत् सत्य० 'बहुव्रीहिः', तस्मिन् सत्य० । दिविजाश्च मनुजाश्च दिविजमनुजाः 'इतरेतरद्वन्द्वः', दिविजमनुजानां लक्ष्मीः दिविज० ‘तत्पुरुषः’, दिविजमनुजलक्ष्म्याः पद्धतिर्यस्मिन् तद् दिविज ० 'बहुव्रीहिः', तस्मिन् दिविज । न विद्यन्ते ईतयो यस्मिन् तत् अनीति 'बहुव्रीहिः', तस्मिन् अनीतौ ॥
६० - श्रिया युक्ता कुण्डिका श्री० 'मध्यमपदलोपी' समासः, असिश्च फलकं च मणिश्च श्रीकुण्डिका च असि० ' इतरेतरद्वन्द्वः', असिफलकमणिश्रीकुण्डिकाः हस्तेषु यस्याः सा असि० 'बहुव्रीहिः' । प्रबलाश्च ते रिपवश्च प्रबल० 'कर्मधारयः', प्रबलरिपव एव वनानि प्रबल ० ' तत्पुरुषः, तेषां प्रबल० । हस्तिनां कालः हस्ति० 'तत्पुरुषः', तं हस्ति० । शोभना तडित् सुतडित् 'प्रादि' समासः सुतडितः इव आभा यस्याः सा सुतडि० 'बहुव्रीहि:', न विद्यते साम येषां ते असामानः 'बहुव्रीहिः', असाम्नः हन्तीति असामहा 'उपपद'समासः । मानस्य सीमा मान० 'तत्पुरुषः ॥
६१ - अतिशायीनि दुःखानि अति० 'प्रादि'समासः, गभीरा चासौ वापिश्च गभीर ० 'कर्मधारयः', अति दुःखानि एव गभीरवापिः अति० 'तत्पुरुषः', अतिदुःखगभीरवाप्याः उत्तारकः अति० ' तत्पुरुषः ' । न विद्यते भीर्यस्य सः अभी: 'बहुव्रीहिः' । अवमस्य हानिः अवम० 'तत्पुरुषः', विहिता अवमहानिर्येन स विहितावम० 'बहुव्रीहिः', विहिताव महानिश्वासौ शान्तश्च विहिता० 'कर्मधारयः', तं विहिता० । परमा चासौ शान्तिश्च परम० 'कर्मधारयः', महच्च तत् निशान्तं च महा० 'कर्मधारयः', परमशान्तौ महानिशान्तं यस्य स परम ० 'बहुव्रीहिः', तं परम० ॥
६२ - येषां बाहवो यद्वा० ' तत्पुरुषः' । वरा चासौ पुरी च वर० 'कर्मधारयः', परमं च तद् अर्गलं च परमा० 'कर्मधारयः', वरपुर्याः परमार्गलं वर० ' तत्पुरुषः', वरपुरींपरमार्गलेन आभाः वर० 'तत्पुरुषः' । परश्चासौ मार्गश्च पर० 'कर्मधारयः', परमार्गस्य लाभाः पर० ' तत्पुरुषः ' । विबुधस्य अयं वैबुधः, वैबुधश्वासौ राट्र च वैबुध० 'कर्मधारयः', तुलितो वैबुधराट्र यया सा तुलित० 'बहुब्रीहिः', तस्यां तुलित० । अघं एव दवः अघ० ' तत्पुरुषः', अम्बु धरन्तीति अम्बु० ' उपपद' समासः, अघदवे अम्बुधराः अघ० 'तत्पुरुषः' ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348