Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
૨૩૦
समासविग्रहः। तत् शमिता० 'बहुव्रीहिः', तस्मिन् शमिता० । नाना च तानि अम्भोजानि च नाना० 'कर्मधारयः', नानाम्भोजानां उदरं नाना० 'तत्पुरुषः', नानाम्मोजोदरे लालितं नाना० 'तत्पुरुषः', तस्मिन् नाना० । अतिशयेन चारु यथा स्यात् तथा अति. 'अव्ययीभावः' । चरणयोयुगं चरण 'तत्पुरुषः', तस्मिन् चरण । दिवि जायन्ते इति दिवि. 'उपपद'समासः, दिविजैः नतं दिवि० 'तत्पुरुषः', तस्मिन् दिवि० । दुःखेन लभ्यते इति दुर्लभं, तस्मिन् दुर्लभे ॥
५१-शोभनो रवो यस्य स सुरवः 'बहुव्रीहिः', तं सु० । अम्बु ददातीति अम्बुदः 'उपपद समासः तं अम्बु० । सुरैः वन्द्या सुर० 'तत्पुरुषः' ।।
५२-पविश्च मुशलं च पवि० 'इतरेतरद्वन्द्वः', पविमुशले करयोर्यस्याः सा पवि० 'बहुव्रीहिः, । अतिशयेन कराला अति. 'प्रादि'समासः, अतिकराला आमा यस्य तत् अति. 'वहुव्रीहिः', तत् अति । रागेण अन्धाः रागा० 'तत्पुरुषः', रागान्धाश्च ते अरयश्च रागा० 'कर्मधारयः', रागान्धारीणां ईरणं रागा० 'तत्पुरुषः', रागान्धारीरणं करोतीति रागा० 'उपपद'समासः। नीला चासौ प्रभा च नील० 'कर्मधारयः', नीलप्रभाणां उत्करो नील. 'तत्पुरुषः,' नीलप्रभोत्करो यस्यां सा नील. 'वहुव्रीहिः॥
५३-गदा एव वल्लयः गदा० 'कर्मधारयः', गदावल्लरीभिः गुपिलं गदा० 'तत्पुरुषः', गदावल्लरीगुपिलं च तत् जन्म च गदा० 'कर्मधारयः', गदावल्लरीगुपिलजन्म एव कान्तारं गदा० 'कर्मधारयः', तस्माद् गदा० । न ईप्सितं अनी० अञ्तत्पुरुषः', अनीप्सितं च तद् उपनतं च अनी 'कर्मधारयः', दिव्याश्च ताः कान्ताश्च दिव्य० 'कर्मधारयः', दिव्यकान्तानां रतं दिव्य. 'तत्पुरुषः', अनीप्सितोपनतं दिव्यकान्तारतं यस्य स अनी० । अनन्तान् (काशान् ) जयतीति अनन्तजित् । अभिमतस्य आयः अभि० 'तत्पुरुषः', अभिमतायं ददातीति अभि० 'उपपद'समासः । समस्तानि च तानि जगन्ति च समस्त० 'कर्मधारयः', समस्तजगतां अंहांसि समस्त. 'तत्पुरुषः', तेषां समस्त । आपदा ओघः आप 'तत्पुरुषः', कृतः आपदोघो येन स कृत० 'वहुव्रीहिः', कृतापदोघश्चासौ स्मरश्च कृता० 'कर्मधारयः', हतः कृतापदोघस्मरो येन स हत० 'बहुव्रीहिः ॥
५४-यान् आनताः यदानताः 'तत्पुरुषः' । वरश्चासौ विधिश्च वर० 'कर्मधारयः', तस्मिन् वर० । अलीकं आनने येषां ते अलीका० 'बहुव्रीहिः' । श्रुतं एव ज्वलनः श्रुत० 'कर्मधारयः', श्रुतज्वलनेन भस्मसात्कृतं श्रुत० 'तत्पुरुषः', भवानां आवली भवा० 'तत्पु. रुष', भवावली एव काननं भवा० 'कर्मधारयः', श्रुतज्वलनभस्मसात्कृतं भवावलीकाननं यैः ते श्रुत० 'बहुव्रीहिः' । बृहन्ति च तानि दुरितानि च बृह० 'कर्मधारयः', जगति बृहहुरितानि जग० 'तत्पुरुषः', प्रपञ्चितानि च तानि जगबृहदुरितानि च प्रपञ्चित० 'कर्मधारयः',प्रपञ्चितजगद्बहदुरितानि एव कूपः प्रपञ्चित० कर्मधारयः', प्रपञ्चितजगद्बहदुरितकूपं तरन्तीति प्रपञ्चित 'उपपद'समासः । न विद्यते उपमा यस्याः सा अनु० 'बहुव्रीहिः',
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348