Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 316
________________ चतुर्विंशतिका. युवजनमृगवागुरां मदनमायामयीमालोकिष्ट, तां शुद्धान्तस्त्रीमकापीत् । तया दुन्दुकस्तथा वशीकृतो यथा यदेव सा वदति तत् सत्यम्, यदेव सा करोति तदेव हितं मनुते । सा तु कार्मणकारिणी वाक्पटुः सर्वं राज्यं ग्रसति हिमानीव चित्रं, भोजमातरं पद्मां नाम अन्या अपि राज्ञीरन्वयवतीर्विनयवती लावण्यवतीस्तृणाय मनुते ॥ ૧૦ , एकदा कलाकेलिर्नाम ज्योतिषिको निशि विसृष्टे सेवकजने दुन्दुकराज्यं विजनं वावादीत् देव! वयं भवत्सेवकत्वेन सुखिनः श्रीशाः, अतो यथातथं ब्रूमः । अयं भोजनामा यो भाग्याधिकस्त्वां हत्वा तव राज्ये निवेक्ष्यते, यथार्ह स्वयं कुर्वीथाः । राजा तदवधार्य वज्राहत इव क्षणं मौनी तस्थौ । ज्यौतिपिकं विससर्ज । सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्तरितया श्रुता भोजमात्रे च उक्ता, सा पुत्रमारणाद् बिभाय | राजाऽपि कण्टिका गृहमगात् । साऽपि राजानं सचिन्तमालोक्याभाणीत् - देव! अद्य कथं म्लानवदनः । । राजाऽऽह स्म - किं क्रियते ? विधिः कुपितः, पुत्रान्मे मृत्युर्ज्ञानिना दृष्टप्रत्ययशतेनोक्तः । कण्टिका वदति स्म का चिन्ता ? मारय पुत्रम् । सुतमपि निर्दलयन्ति राज्यलुब्धाः, सुतो न सुतः, सुतरूपेण शत्रुरेव सः । तद्वचनात् दुन्दुकः सुतं जिघांसयामास । यावता घातयिष्यति तावता भोजमात्रा पाटलीपुरे स्वभ्रातॄणां शूराणां राज्यश्रीस्वयंवर मण्डपानां स्नेहलानां धर्मज्ञानामग्रे प्रच्छन्नलेखेन ज्ञापितं यथा - एवं एवं भवतां भागिनेयो विनंक्ष्यति, राजा रुष्टः, आगत्य एनं गृहीत्वा गच्छत, रक्षत जीववत् मा स्माहं भवत्सु जीवत्सु निष्पुत्राऽभूवमिति । तेऽप्यागच्छन्, दुन्दुकमनमन्, उत्सवमिषेण भागिनेयं भोजं गृहीत्वा पाटलिपुरमगमन् तत्र तमपीपठन्, अलीललन्, शस्त्राभ्यासमचीकरन् । यावन्नवमं वर्षं तत्र तस्य पञ्चाष्टदिनैः कतिभिरप्यूनमतिक्रामति स्म, कण्टिका दुन्दुकं विज्ञपयति स्म - - देव ! पुत्ररूपः शत्रुस्ते मातृशाले वर्धते, नखच्छेद्यं परशुच्छेद्यं मा कुरु, अत्रानीय छन्नं यमसदनं नय । राजाऽऽह - सत्यमेतत् । ततो दूतमुखेन दुन्दुको भोजं तन्मातुलपार्श्वेऽयाचीत् । ते भोजं नार्पयन्ति । पुनः पुनः प्राह दूतान् दुन्दुकः प्रहिणोति । भोजमातुलाः प्राहुः - राजन् ! वयं तव भावं विद्मः । नार्पयामः । विधर्मपात्रमसौ । अन्योऽपि शरणागतो रक्ष्यः क्षत्रियैः, किं पुनरीह भगिनीपुत्रः ? बलात्कारं ब्रूपे चेद् युद्धाय प्रगुणीभूयाः । वयं भगिनीपतये चमकारं दर्शयिष्यामः । तद्दूतैरागत्योक्तः दुन्दुकः कुपितोऽपि तान् हन्तुं न क्षमः । भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापितः कवचहर उपपितृ नैति । ततो दुन्दुकेन बप्पभट्टिसूरयः प्रार्थिताः - यूयं गत्वा भोजं सुतमनुनीयानयत, मानयत माम् । अनिच्छन्तोऽपि तत्सैनिकैः सह पाटलीपुत्रं चेलुः । अर्धमार्ग संप्राप्ताः । स्थित्वा विमृष्टं ज्ञानदृशा-भोजस्तावन्मम वचसा नृपसमीपं नैष्यति, आनीयते वा यथा तथा तदाऽऽनीतोऽपि पित्रा हन्येत, वाग्लङ्घने राजाऽपि क्रुद्धो मां हन्ति, तस्माद् 'इतो व्याघ्र इतो दुस्तदी'ति न्यायः प्राप्तः, साम्प्रतं च १ 'जीवनदमंसत । तत्र तस्य पञ्चाब्दी दिनैः' इति पाठान्तरम् । २ 'नातिक्र०' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348