________________
चतुर्विंशतिका.
युवजनमृगवागुरां मदनमायामयीमालोकिष्ट, तां शुद्धान्तस्त्रीमकापीत् । तया दुन्दुकस्तथा वशीकृतो यथा यदेव सा वदति तत् सत्यम्, यदेव सा करोति तदेव हितं मनुते । सा तु कार्मणकारिणी वाक्पटुः सर्वं राज्यं ग्रसति हिमानीव चित्रं, भोजमातरं पद्मां नाम अन्या अपि राज्ञीरन्वयवतीर्विनयवती लावण्यवतीस्तृणाय मनुते ॥
૧૦
,
एकदा कलाकेलिर्नाम ज्योतिषिको निशि विसृष्टे सेवकजने दुन्दुकराज्यं विजनं वावादीत् देव! वयं भवत्सेवकत्वेन सुखिनः श्रीशाः, अतो यथातथं ब्रूमः । अयं भोजनामा यो भाग्याधिकस्त्वां हत्वा तव राज्ये निवेक्ष्यते, यथार्ह स्वयं कुर्वीथाः । राजा तदवधार्य वज्राहत इव क्षणं मौनी तस्थौ । ज्यौतिपिकं विससर्ज । सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्तरितया श्रुता भोजमात्रे च उक्ता, सा पुत्रमारणाद् बिभाय | राजाऽपि कण्टिका गृहमगात् । साऽपि राजानं सचिन्तमालोक्याभाणीत् - देव! अद्य कथं म्लानवदनः । । राजाऽऽह स्म - किं क्रियते ? विधिः कुपितः, पुत्रान्मे मृत्युर्ज्ञानिना दृष्टप्रत्ययशतेनोक्तः । कण्टिका वदति स्म का चिन्ता ? मारय पुत्रम् । सुतमपि निर्दलयन्ति राज्यलुब्धाः, सुतो न सुतः, सुतरूपेण शत्रुरेव सः । तद्वचनात् दुन्दुकः सुतं जिघांसयामास । यावता घातयिष्यति तावता भोजमात्रा पाटलीपुरे स्वभ्रातॄणां शूराणां राज्यश्रीस्वयंवर मण्डपानां स्नेहलानां धर्मज्ञानामग्रे प्रच्छन्नलेखेन ज्ञापितं यथा - एवं एवं भवतां भागिनेयो विनंक्ष्यति, राजा रुष्टः, आगत्य एनं गृहीत्वा गच्छत, रक्षत जीववत् मा स्माहं भवत्सु जीवत्सु निष्पुत्राऽभूवमिति । तेऽप्यागच्छन्, दुन्दुकमनमन्, उत्सवमिषेण भागिनेयं भोजं गृहीत्वा पाटलिपुरमगमन् तत्र तमपीपठन्, अलीललन्, शस्त्राभ्यासमचीकरन् । यावन्नवमं वर्षं तत्र तस्य पञ्चाष्टदिनैः कतिभिरप्यूनमतिक्रामति स्म, कण्टिका दुन्दुकं विज्ञपयति स्म - - देव ! पुत्ररूपः शत्रुस्ते मातृशाले वर्धते, नखच्छेद्यं परशुच्छेद्यं मा कुरु, अत्रानीय छन्नं यमसदनं नय । राजाऽऽह - सत्यमेतत् । ततो दूतमुखेन दुन्दुको भोजं तन्मातुलपार्श्वेऽयाचीत् । ते भोजं नार्पयन्ति । पुनः पुनः प्राह दूतान् दुन्दुकः प्रहिणोति । भोजमातुलाः प्राहुः - राजन् ! वयं तव भावं विद्मः । नार्पयामः । विधर्मपात्रमसौ । अन्योऽपि शरणागतो रक्ष्यः क्षत्रियैः, किं पुनरीह भगिनीपुत्रः ? बलात्कारं ब्रूपे चेद् युद्धाय प्रगुणीभूयाः । वयं भगिनीपतये चमकारं दर्शयिष्यामः । तद्दूतैरागत्योक्तः दुन्दुकः कुपितोऽपि तान् हन्तुं न क्षमः । भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापितः कवचहर उपपितृ नैति । ततो दुन्दुकेन बप्पभट्टिसूरयः प्रार्थिताः - यूयं गत्वा भोजं सुतमनुनीयानयत, मानयत माम् । अनिच्छन्तोऽपि तत्सैनिकैः सह पाटलीपुत्रं चेलुः । अर्धमार्ग संप्राप्ताः । स्थित्वा विमृष्टं ज्ञानदृशा-भोजस्तावन्मम वचसा नृपसमीपं नैष्यति, आनीयते वा यथा तथा तदाऽऽनीतोऽपि पित्रा हन्येत, वाग्लङ्घने राजाऽपि क्रुद्धो मां हन्ति, तस्माद् 'इतो व्याघ्र इतो दुस्तदी'ति न्यायः प्राप्तः, साम्प्रतं च १ 'जीवनदमंसत । तत्र तस्य पञ्चाब्दी दिनैः' इति पाठान्तरम् । २ 'नातिक्र०' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org