________________
श्रीयप्पभट्टिसूरिचरितम्
૨૧૧. ममायुः दिनद्वयमवशिष्यते, तस्मादनशनं शरणमिति विमृश्यासन्नस्था यतयो भाषिता:नन्नसूरिगोविन्दाचार्यो प्रति हितं ब्रूयात । श्रावकेभ्योऽपि मिथ्या दुष्कृतं ब्रूयात । परस्परममत्सरतामाद्रियध्वम् , क्रियाः पालयत, वालवृद्धान् लालयत । न वयं युष्मदीयाः, न यूयमस्मदीयाः । सम्बन्धाः कृत्रिमाः सर्वे । इति शिक्षयित्वाऽनशनस्थाः शमताप्रपन्नाः ।
"अर्हतस्त्रिजगद्वन्द्यान् , सिद्धान् विध्वस्तवन्धनान् । साधूंश्च जैनधर्म च, प्रपद्ये शरणं त्रिधा ॥ १॥-अनु० महाव्रतानि पश्चैव, पष्ठकं रात्रिभोजनम् ।
विराधितानि यत् तत्र, मिथ्यादुप्कृतमस्तु मे ॥२॥"-अनु० इति बुवाणा आसीना अदीनाः कालमकार्युः । श्रीवप्पभदिसूरीणां श्रीविक्रमादित्यादष्टशतवर्षेषु ( सं० ८००) गतेषु भाद्रपदशुक्लतृतीयायां रविदिने हस्तः जन्म, पञ्चनवत्यधिकेषु( सं० ८९५ ) गतेषु स्वर्गारोहणं, तदैव मोढेरके नन्नसूरीणामग्रे भारत्योक्तंभघद्गुरव (रुबान्धवा? ) ईशानदेवलोकं गताः । तत्र बाढं शोकः प्रससार ।
"शास्त्रज्ञाः सुवचोऽन्विता बहुजनस्याधारतामागताः __ सद्धत्ताः स्वपरोपकारनिरता दाक्षिण्यरत्नाकराः। सर्वस्याभिमता गुणैः परिवृता भूमण्डनाः सज्जनाः
धातः! किं न कृतास्त्वया गतधिया कल्पान्तदीर्घायुषः? ॥१॥"-शार्दूल. वृद्धस्तु प्रबोधो दत्तः
“हित्वा जीर्णं नवं देहं, लभते भो पुनर्नवम् ।
कृतपुण्यस्य मय॑स्य, मृत्युरेव रसायनम् ॥ १॥”-अनु० इति ॥
दुन्दुकेन सूरिभिः सह प्रहिताः सैनिकास्ते व्यावृत्य दुन्दुकपार्श्व गताः । सोऽपि पश्चात्तापानलेन दन्दह्यते स्म । भोजेनापि समातुलेन सूरिशिष्याणामन्येषामपि लोकानां मुखादवगतं यत् सूरय एवमर्थं तव पार्थ नाजग्मुः-मा स्मायमस्मदुपरोधशङ्काक्षुब्धचित्तः पितुः पार्श्वगतो मतेति कृपां दधुः । तदेतदाकर्ण्य भोजस्तथा पीडितो यथा वज्रपातेनापीड्यते, पितुरन्तिकं नागादसौ । एकदा मालिकः कश्चित् पूर्वमामराजभृत्यो विदेशे भ्रमित्वा भोजान्तिकमाययो पाटलीपुरे । तेनोक्तम्-देव! त्वमस्मत्स्वामिकुलप्रदीपः, मया विदेशे सद्गुरोमुखाद् विद्यैका लब्धा मातुलिङ्गी नाम, ययाऽभिमन्त्रितेन मातुलिङ्गेन हताः करिहरिप्राया अपि वलिनो नियन्ते, मानवानां तु का कथा? देव ! गृहाण त्वम् । भोजेन सा तस्मादादत्ता, प्रमाणिता, सत्या, चिन्तितकृत् । मालिको दानमानाभ्यां भोजेन रञ्जितः । मातुलाः सर्वे भोजेन विद्याशक्तिं प्रकाश्य तोपिताः। ते ऊचुः-यदीयं ते शक्तिस्तदा प्राभृतमिपेण मातुलिङ्गानि गृहीत्वा अस्माभिः सह पितुः समीपं व्रज । पितरं निपात्य राज्यं गृहाण । तद् रुरुचे भोजाय, चलितो बहुमातुलिङ्गशाली सन् , गतः पितु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org