________________
૨૧૨
चतुर्विशतिका. रं, कथापितं च-तात ! त्वं पूज्योऽहं शिशुः, त्वत्तो मरणं वा राज्यं वा सर्व रम्यं मे । राजा संतुष्टः, अहो विनीतः सुत आयातु इति विमृश्य आहूतो भोजः, सोऽपि ततो मध्यमागतः, एकासनस्थौ कण्टिकाराजौ मातुलिङ्गेन जघान, सम्यग् विद्या नान्यथा । उपविष्टो दुन्दुकराज्ये भोजः। तन्मातुला अतुल्यं तोषं दधुः । माता पद्मा प्रससाद । दुन्दुकेन धनहरणग्रासोद्दालादिना दूनचरा राजन्यकाः पुनर्जातमात्मानं मेनिरे । महाजनो जिजीव, वर्णाः सर्वे उन्मेदुः । संसारसरोऽम्भोज भोज कमला भेजे । दोर्बलात् परिच्छदबलाच्च जगजिगाय ॥
अथ कृतज्ञतया मोढेर(क)पुरे नन्नसूरये विज्ञप्तिं दत्त्वा उत्तमनरानप्रैषीत् । ते गतास्तत्र, विज्ञप्तिर्दर्शिता, तैस्तत्र वाचिता नन्नसूरिगोविन्दाचार्याधैर्यधा-स्वस्ति श्रीमोढेरे परमगुरुश्रीनन्नसूरिगोविन्दसूरिपादान् गोपगिरिदुर्गात् श्रीभोजः परमजैनो विज्ञापयति यथाइह तावत् प्रज्ञागङ्गाहिमाद्रयः सामाचारीनारीसौभाग्यवर्धनमकरध्वजाः क्षितिपतिसदःकुमुदिनीश्वेतदीधितयो भारतीधर्मपुत्राः श्रीवप्पभदिसूरयस्त्रिदिवलोकलोचनलेह्यललितपुण्यलावण्यतामादधिरे, तत्स्थाने सम्प्रति दीर्घायुषो यूयं स्थ । दृष्ट्वैतां विज्ञप्ति प्रमाणेनात्र पादा अवधार्याः, (तद्) दृष्ट्वा भक्तिरहस्यं सूरयः ससङ्घाः सुतरां जहर्षः, सङ्घानुमत्या गोविन्दाचार्य मोढेरके मुक्त्वा श्रीनन्नसूरयो गोपगिरिमसरन् । भोजः पादचारेण ससैन्यः संमुखमायातः, गुरोः पादोदकं पपौ । उल्लसत्तृष्णो गिरं शुश्राव । स्थानस्थानमिलितजनहृदयसंघट्टचूरितहारिहारमौक्तिकधवलितराजपथं पुरं निनाय, सिंहासने निवेशयामास (तान्) । ततः मङ्गलं चकार नान्दीध्वनिः उत्सवाः नर्तनं आनन्दः तदानन्दमयो बभूव, तदादेशान् शुश्राव, तद्भक्तानात्मवद् अदर्शत् , मन्तुयुक्तान् विषवदीक्षांचके । तदुपदेशाजिनमण्डितां मेदिनीं विदधे । दुन्दुकस्य तादृग् मरणं स्मृत्वा कुपथेषु न रेमे । मथुराशत्रुञ्जयादिषु यात्रां चकार । एकादशवतानुचरणपूर्व राजर्षेर्यशांसि उद्दधार, चिरं राज्यं चकार । इत्येवं गोपगिरौ भोजो धर्म लालयामास, प्रजाः पालयामास, उदियाय च । अन्यैरपि पुण्यपुरुषैरेवं भाव्यम् ? ॥
॥ इति श्रीवप्प भट्टिसूरिचरित्रं समाप्तम् ॥
१ प्रतिप्रान्तेऽयमुल्लेखः
महोपाध्यायश्रीसकलचन्द्रशिष्यमहोपाध्यायश्रीशान्तिचन्द्र शिष्यगणिरतिचन्द्रेण लिपीकृतं (उदेपुरात् सार्धकोशे) देवालीनगरे। ग्रन्थानं ५५९ बप्पभटिचरित्रम् ॥ ॥शुभं भवतु ॥ संवत् १६५१ वृपे (वर्षे)॥
२ इदं चरित्रं श्रीराजशेखरसूरिप्रणीतचतुर्विंशतिप्रबन्धस्यैकतमः प्रबन्ध इति मुद्रितपुस्तकदर्शनेन तदनुवादावलोकनेन च प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org