________________
श्रीबप्पट्टिसरिचरितम्
૨૦૯ वित्तं ददे, प्रभासे चन्द्रप्रभः प्रणेमे, वन्दिमोक्षः सर्वत्रापि कारितः, आमस्य भुक्तौ तदा गुर्जरादिदेशाः, तीर्थादीनां चिरं पूजोपयोगिनो हुदा(हट्टा)द्याघाटाः प्रकृप्ताः। एवं कार्याणि कृत्वा सूरिनृपो गोपगिरिं प्राविशताम् । सङ्घपूजादिमहास्तत्र नवनवाः । प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः, आपृष्टः सः, लोकोऽपि क्षमितः, अनृणो देशः कृतः । सह सूरिणा नाघारूढो गङ्गासरित्तीरे तीर्थं मागधं गतः । तत्र जले धूमं दृष्टवान् तदा सूरीन्द्रं क्षमयन् संसारमसारं विदन्ननशनमगृहीत समाधिस्थः । श्रीविक्रमकालाद् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदशुक्लपञ्चम्यां पञ्चपरमेष्ठिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि तदा रुरुदुः। चिरप्रीतिमोहो दुर्जय एव। सेवकास्तु चक्रन्दुः-हा शरणागतरक्षावज्रकुमार! हा राजस्थापनादाशरथे ! हा अश्वदमननल! हा सत्यवाग्युधिष्ठिर ! हा महा(हेम)दानकर्ण ! हा मज्जज्जैनतत्त्वश्रेणिक! हा सूरिसेवासम्प्रते! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्यासातवाहन ! अस्मान् विहाय व गतोऽसि ? दर्शयैकदाऽस्मभ्यमात्मानं, मैकाकिनो मुश्च । एवं विलपन्तस्ते सूरिभिः प्रतिबोधिताः-भो भो सत्यं देवेन पापेन
"आलब्धा कामधेनुः सरसकिसलयश्चान्दनश्चूर्णितो हा
छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः । दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला
भिन्नः कुम्भः सुधायाः कमलकुवलयैः केलिहोमः कृतोऽयम् ॥१॥"-स्रग्० तथा मा शोचत शोचत, यतः
"पूर्वाह्ने प्रतिबोध्य पङ्कजवनान्युत्सृज्य नैशं तमः __कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा । मध्याह्ने सरितां जलं प्रसृमरैरापीय दीप्तैः करैः
सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ? ॥१॥"-शार्दूल. इति लोकं निःशोकं कृत्वा लोकेन सह सूरिर्गोपगिरिमगात् ।
सूरिभिः दुन्दुको नाम राजा आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूणि समुद्गिरन् हिमम्लानदीनवदनः समुल्लसच्चिन्ताचान्तस्वान्तो वभापे-राजन् ! कोऽयं महतस्तव पितृशोकः ? स हि चतुर्वर्ग संसाध्य कृतकृत्यो बभूव, यशोमयेन देहेन च आचन्द्रार्क जीवन्नेव(आस्ते)। सुपुण्यलक्ष्मीकीर्तिलक्ष्म्यौ चेति द्वे नरस्योपकारिण्यौ वल्लभे।
"पुण्यलक्ष्म्याश्च कीर्तेश्च, विचारयत चारुताम् ।
स्वामिना सह यात्येका, परा तिष्ठति पृष्ठतः ॥ १॥"-अनु० अन्योऽपि कोऽप्येवंविधो भवतु इत्येवंविधाभिर्वाग्भिर्दुन्दुकराजं सूरिराजो निशोकमकार्षीत् । दुन्दुकः शनैः शनैः परमाहतोऽभूत् । राजकार्याण्यकार्षीत् । त्रिवर्ग समासेविष्ट । एवं वर्तमाने काले दुन्दुकश्चतुष्पथेऽगच्छत् , कण्टिकां नाम गणिकामुदाररूपां [चिद्रूपां]
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,