________________
२०८
चतुर्विशतिका. "लावण्यामृतसारसारणिसमा सा भोगभूः स्नेहला
सा लक्ष्मीः स नवोद्गमस्तरुणिमा सा द्वारिका तज्जलम् । ते गोविन्द-शिवा-समुद्रविजयप्रायाः प्रियाः प्रेरकाः
यो जीवेषु कृपानिधियंधित नोद्वाहः स नेमिः श्रियै ॥ १॥-शार्दूल० भूयः
मग्नैः कुटुम्बजम्बाले, यैमिथ्याकार्यजजरः।
नोजयन्ते नतो नेमि-स्ते चेन्जीवन्ति के मृताः? ॥२॥"-अनु० रैवतकतीर्थमहिमा सूरिभियाख्याय तथा पल्लवितो यथा भूमिमाहत्योत्थाय परिकरं बद्धा सरभसं भूपः प्रतिशुश्राव-रैवतके नेमिमवन्दित्वा मया न भोक्तव्यं इति, लोकनिषिद्धः, मा मा, दूरे रैवतको गिरिः, मृदवो भवादशाः । राजाऽऽह-प्रतिज्ञातं मे न चलति । ततः सह सूरिणा आमः सारसैन्यो रेवतकायाचालीत् । स रतम्भतीर्थ यावद् गतः तत्र हृत्तापेन व्याकुलितोऽपि प्राणसन्देहं प्राप्तोऽपि नाहारमग्रहीत् । भीतो लोकः खिन्नः सूरिः, मन्त्रशत्त्या कूष्माण्डी शक्तिं साक्षादानिनाय, तदने कथयामास-तत् कुरु येन राजा जेमति जीवति । तद्वचनात् कूष्माण्डी विम्बमेकं महत् शिरसा विभ्रती गगनेनामसविधं गता । ऊचे चवत्स ! अहमम्बिका तव सत्त्वेन तुष्टा । गगने आगच्छन्तीं मां त्वं साक्षादद्राक्षीः, मयेदं रैवसकदेशभूतदेवलोकशिखरान्नेमिनायविम्बमानीतं, इदं वन्दस्व, अस्मिन् वन्दिते मूलनेमिः वन्दित एवेति कुरु पारणकम् । सूरिभिरपि तत् समर्थितम् , लोकेन स्थापितं तद् बिम्ब वन्दिस्वा राज्ञा ग्रासग्रहणं (कृतम्) । अद्यापि तद् विम्बं स्तम्भतीर्थे पूज्यते । उज्जयन्त इति प्रसिद्धं तत् तीर्थ, हृद्यातोद्यानि ध्यानयनामो विमलगिरि ऋषभध्वजं सोत्साहो वन्दित्वा यावद् रैवताद्रिं गतः तावत् तीर्थ दिगम्बरे रुद्धम् , श्वेताम्बरसङ्घः प्रवेष्टुं न लभते । आमेन तत् ज्ञात्वा ऊचे-युद्धं कृत्वा निप्पटान् हत्वा नमि नमिष्यामि, तावत् तद्दिगम्बरभक्ता एकादश राजानस्तत्र मिलिताः, सर्वे युद्धकतानाः । तदा चप्पभट्टिः-स्थिरैः स्थेयं, एवं भूपं प्रतिबोध्य बप्पसहिरुपदिगम्बरं उपतद्भूपं च नरं प्रहित्यावभाण-इदं तीर्थ सद्योऽम्बिका दत्ते यस्य तस्य पक्षस्य सत्कमिति मन्ये, तैरुक्तं-युक्तं युक्तमेतत् । ततो बप्पभटिना सुराष्ट्रवास्तव्यानां श्वेताम्बरीयाणां दिगम्बरीयाणां च श्रावकाणां शतशः कन्या मेलिताः पञ्चसप्तवार्षिकाः, मिलिताः सभ्याः, वाभट्टिना अम्बादेवीपार्थात् कथापितं-यदि सर्वाः श्वेताम्बरश्रावककन्यका "उजिन्तसेलसिहरे” इति गाथां पठिष्यन्ति तदा श्वेताम्बरीयं तीर्थं, पक्षान्तरे तु दैगम्बरीयं इति । तद् आनीता श्वेताम्बरबालिकाः, सर्वाभिः श्वेताम्बरपक्षश्रावकबालिकाभिः पठिता सा गाथा, अपरासु तु नैकयाऽपि; ततो जातं श्वेताम्बरसाद् रैवतकं तीर्थम् । अम्बिकया खस्थया पुष्पवृष्टिः श्वेताम्वरेषु कृता । ततो दिक्पटा नंष्वा महाराष्ट्रादिदक्षिणदेशानगमन् । राज्ञाऽन्यैरपि सर्वसङ्घश्चिरात् तत्र मिलितैर्नेमिस्तत्र नेमे,
१ अम्बिकेत्यपरनाम्नी देवी । २ उज्जयन्तशैलशिखरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org