________________
२०७
श्रीबप्पभट्टिसूरिचरितम् सूरिराह
"दुण्डंपि कवालचडुयं च काया विलुम्पंति ॥ १॥" इति । आमः श्रुत्वा चमत्कृतः । अहो ! सर्वज्ञपुत्रका एते ॥
अन्यदा कोऽपि चित्रकृद् भूपरूपं लिखित्वोपभूपं गतः। बप्पमहिना श्लाधिता तत्कला । नृपात् तेन टङ्ककलक्षं लेभे । लेप्यमयबिम्बचतुष्टयं कारितम् । एकं मथुरायां एक मोढेरकवसतिकायां [अणहिलपुरे ] एकं गोपगिरौ एकं सतारकाख्यपुरे । तत्र तत्र प्रतिष्ठाभावनाः कारिताः । अन्यदपि वह्वकारि ॥ __ अथामगृहे पुत्रो जातः सुलक्षणः । सोत्सवं तस्य दुन्दुक इति नाम प्रतिष्ठितम् । सोऽपि युवत्वे तेस्तैर्गुणः पप्रथे । एकदा समुद्रसेनभूपाधिष्ठितं राजगिरिनामकं दुर्ग आमो रुरोध । अमितं सैन्यं कुद्दालादिसामग्री भैरवादयो यन्त्रभेदाः कृताः । प्राकारोऽतिबलेन प्रपातयितुमारेभे, नापतत् । आमः खिन्नः, तेन सूरयः पृष्टाः । अयम_लिहः प्राकारः कदाऽस्माभिहीष्यते ? । सूरिर्बभाण-तव पुत्रपुत्रो भोजनामा अमुं प्राकारं दृक्पातमात्रेण पातयिष्यति, अन्यो नैव । आमस्त्यक्तारम्भः प्राकाराद् बहिद्वादशाब्दीमस्थात् । शत्रुदेशमात्मसाच्चके । दुन्दुकगृहे पुत्रो जातस्तस्य भोज इति नाम ददौ । स जातमात्रो पर्यङ्किकान्यस्तो दुर्गद्वारापमानीतः प्रधानैः, तदृक्प्रपातमात्रेण प्राकारः खण्डशो विशीर्णः । समुद्रसेनभूपो धर्मद्वारेण निःसृतः । आमो राजगिरिमविशत्, प्रजाभारो नारोपितः । अक्रूरा हि जैनराजर्षयः दयापरास्ते, रात्रौ आमाय राजगिर्यधिष्ठायकेन आभणितम्-राजन् ! यदि त्वमत्र स्थास्यसि तदा तव लोकं हनिष्यामि। आमः प्रत्यूचे-लोकेन हतेन किं ते फलं ? यदि हनिष्यसि तदा मामेव घातय । एतन्निर्भयमामवचः श्रुत्वा तुष्टो व्यन्तर उवाच-प्रीतोऽस्मि ते सत्त्वेन, याचस्व किंचित् , राज्ञोचे-न किमपि न्यूनं, केवलं कदा मे मृत्युः ? बृहीदम् । व्यन्तर उवाच-पण्मासावशेषे आयुषि वक्ष्यामि, पुनराययौ सः, राज्ञोक्तं कियन्मे आयुः, व्यन्तरो वदति-देव !
"गङ्गान्तागधे तीर्थे, नावा वै तरतः सतः ।
मकाराद्यक्षरग्रामो-पकण्ठे मृत्युरस्ति ते ॥१॥"-अनु० । पण्मासान्त इति विद्याः, पानीयान्निर्गच्छन्तं धूमं यदा द्रक्ष्यसि तदा मृत्युर्ज्ञातव्यः। साधना च कार्या पारलौकिकी इति गदित्वा ततो देवो गतः । राजा प्रातः सूरिपाचं गतः। सूरिरुवाच-राजन् ! यद् व्यन्तरेण तवाग्रे कथितं आयुःप्रमाणं तत् तथैव, धर्मपाथेयं गृह्णीयाः। तदाकण्य भूपस्तुतोष विसिष्मिये च । अहो ज्ञानमथवा विस्मयः एव का? शूरः तेजस्वी, इन्दुराह्लादकः, गङ्गाम्भः पावनं, जैना ज्ञानिन इति ॥ दिनद्वये गते सूरिः श्रीआमस्य पुरः प्रसङ्गेन श्रीनेमिनाथस्याशीर्वादं पपाठ
१ छाया
द्वयोरपि कपालचाटुकं च काका विलुम्पन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org