Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
समासविग्रहः ।
२२३
महीधाः 'उपपद' समासः, रिपव एव महीघ्राः रिपु० 'कर्मधारयः', रिपुमहीधान् भिनत्तीति रिपु० 'उपपद' समासः ॥
१३ – भीतिमांश्चासौ जनश्च भीति० 'कर्मधारयः', अभयीकृतो भीतिमज्जनो येन सः अभयी॰ ‘बहुव्रीहिः’ । सुरान् पान्तीति सुरपाः 'उपपद' समासः, सुरपैः कृतं सुर० 'तत्पुरुषः', न तुला अतुला 'नञ्तत्पुरुषः', अतुला चासौ भूतिश्च अतुल० 'कर्मधारयः', अतुलभूत्या मज्जनं अतुल० 'तत्पुरुषः', सुरपकृतं अतुलभूतिमज्जनं यस्य स सुरप० 'बहुत्रीहिः' । भव्यानां मनांसि भव्य० 'तत्पुरुषः', भव्यमनसां अभिनन्दनः भव्य० 'तत्पुरुषः' । शिवं ददातीति शिवदः 'उपपद' समासः ॥
१४ - न चरतीति अचरः 'नञ्तत्पुरुषः', तं अचरम् । कृताः चरणा यै ते कृत० 'बहुव्रीहिः' । शतपत्राणां सञ्चयः शत० 'तत्पुरुषः', तस्मिन् शत० । अपवर्गस्य उपायः अप० ' तत्पुरुषः', अपवर्गोपायस्य शोधनाः अप० ' तत्पुरुषः ' । यश एव धनं येषां ते यशोधनाः 'वहुव्रीहिः' ॥
१५ - विष्टपानां त्रयं विष्टप० 'तत्पुरुषः', अखिलं च तद् विष्टपत्रयं च अखिल ० 'कर्मधारयः', व्याप्तं अखिलविष्टपत्रयं यया सा व्याप्ता० 'बहुव्रीहिः' | पदानां चमूः पद० 'तत्पुरुषः', तथा पद० । पुष्टानि च तानि पत्राणि च पुष्ट० 'कर्मधारयः', नया एव पुष्टपत्राणि यस्याः सा नय० 'बहुव्रीहिः', तया नय० । जिनैः उदिता जिनोदिता ' तत्पुरुषः ॥
१६ – महच्च तद् दलं च महादलं 'कर्मधारयः', अब्जस्य महादलं अब्ज० 'तत्पुरुषः', अजमहादलवद् आभा यस्याः सा अब्ज ० ' बहुव्रीहिः, तया अब्ज० । न तुलः अतुलः 'नज्तत्पुरुषः', मोदस्य लाभो मोद० 'तत्पुरुषः', अतुलो मोदलाभो यया सा अतुल० 'बहुव्रीहिः', तया अतुल० । महान् शिखण्डी यस्याः सा महा० ' बहुव्रीहि:' । रिपूणां राशिः रिपु० ' तत्पुरुषः', रिपुराशेः खण्डिका रिपु० 'तत्पुरुषः ' ॥
१७ – उरुः प्रभा यस्य स उरु० 'बहुव्रीहिः', तं उरु० । अनङ्ग एव तरुः अनङ्ग० 'कर्मधारयः', अनङ्गतरोः प्रभञ्जनः अनङ्गः 'तत्पुरुषः', तं अनङ्ग० । महश्च दया च महोदये 'इतरेतरद्वन्द्वः', सत्यौ महोदये यस्य स सन्म० 'बहुव्रीहिः', तं सन्म० । शोभना मतिर्यस्य स सुमतिः, सुमतिश्चासौ जिनश्च सुमति ० 'कर्मधारयः', तं सुमति० । महांश्चासौ उदयश्च महोदयः 'कर्मधारयः', विकसन् महोदयो यस्य स विकस० 'बहुव्रीहिः', तं विकस०॥ १८- भव एव उदधिः भवोदधिः 'कर्मधारयः', तस्मिन् भवो० । गुरु वैभवं यस्य स गुरु० ‘बहुव्रीहिः' । तमसोऽयं तामसः, न तामसः अतामसः 'नञ्तत्पुरुषः', तं अतामसम् । तीर्थं कुर्वन्तीति तीर्थ ० ' उपपद' समासः, तेषां तीर्थ० । न संवरो यस्य सः असं ० 'बहुव्रीहिः', तं असं० ॥
१९ - भवे वासो भव० 'तत्पुरुषः', भववास एव दाम भव० 'कर्मधारयः', तद् भव० । जिनानां वाग् जिन० ' तत्पुरुषः' । अतिशायिनी शिवा अतिशिवा 'प्रादि स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348