Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीबप्पभट्टिसूरिचरितम्
२०५
एवं बहु पेठे । वाक्पतिर्ध्यानं विसृज्य संमुखीभूय सूरीनाह - हे बप्पभट्टिमिश्राः ! यूयं किमस्मत्पुरः शृङ्गाररौद्राङ्गं पद्यपाठं कुरुध्वम् ? | बप्पभयः प्राहुः । भवन्तः (सांख्याः) “सांख्या निरीश्वराः केचित् केचिदीश्वरदेवताः ।
"
सर्वेषामपि तेषां स्यात्, तत्त्वानां पञ्चविंशतिः ॥ १ ॥ " - अनु०
इति ज्ञात्वा त्वदभिमतदेवाशिषः पठन्तः स्म, (अपरञ्च ) बप्प भयो जगदुः किं तर्हि रुद्रादयो मुक्तिदातारो न भवन्तीति मनुध्वे ? वाक्पतिः प्राह एवं संभाव्यते, बप्पभट्टयो बभाषिरे - यो मुक्तिदानक्षमस्तं शृणु पठामि -
" मदेन मानेन मनोभवेन
( अयोगव्यवच्छेदद्वात्रिंशिकायां श्र० २५ ) दिट्ठी करुणातरंगियपु (फु) डा एयस्स सोमं (मं) मुहं आयारो पसमायरो परियरो सन्तो पसन्ना तणू । तं मन्ने जरजम्मनिज्जरहरो ( मचुहरणो ) देवाहिदेवो जिणो
देवाण अवराण दी सइ जओ नेयं सरूवं जए ॥ २ ॥ " - शार्दूल० इत्यादि बहु पेठे । वाक्पतिराह - स जिनः क्वास्ते ? । सूरिः - स्वरूपतो मुक्तौ, मूर्ति (त) स्तु जिनायतने । वाक्पतिर्ब्रूते प्रभो ! दर्शय । ततः प्रभुरपि आमनरेन्द्रकारितप्रासादे तं निनाय, स्वयं प्रतिष्ठितं श्री पार्श्वनाथ मदीदृशत्। शान्तं कान्तं निरञ्जनरूपं दृष्ट्वा प्रबुद्धो वभाण - " अयं निरञ्जनो देव आकारेणैव लक्ष्यते" । तदा बप्पभट्टिसूरिभिर्देवगुरुधर्मतत्त्वान्युक्तानि । रञ्जितः स मिध्यात्वविपमुत्सृज्य जैनर्पिः श्वेताम्बरोऽभवत् जिनमवन्दिष्ट, अपाठीच्च"मैना हि सुरहिणं, इमिणा किंकरफलं नडाले णं ।
"
इच्छामि अहं जिणवर !, पणाम किण कलुसियं काऊं ? ॥ १ ॥ - आर्या
क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां
वृथैव साम्राज्यरुजा परेषाम् ॥ १ ॥ - उपजातिः
१ भवन्तः सांख्या इति भवदभिमत देवाशिषः पठन्तः स्मः, यथारुचि हि श्रोतुः पुरः पठनीयं, वाक्पतिः- यद्यप्येवं तथापि मुमुक्षवो वयमासन्नं निधनं ज्ञाला इह परमब्रह्मध्यातुमायाताः स्म इति उपदेशरत्नाकरे (पत्रं ५९ )
२ छाया-
३ छाया
Jain Education International
यद् दृष्टिः करुणा तरङ्गितपु (स्फु)टा एतस्य सौम्यं मुखम् आकारः प्रशमाकरः परिकरः शान्तः प्रसन्ना तनूः । तद् मन्ये जराजन्मनिर्जरहर : ( मृत्युहरणः ) देवाधिदेवो जिनो देवानामपरेषां दृश्यते यतो नैतत् स्वरूपं जगति ॥
मृगनाभिसुरभितेन अनेन किङ्करफलं ललाटे | इच्छामि अहं जिनवर ! प्रणामं कथं कलुषितं कर्तुम् ? ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348