Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 305
________________ श्रीयप्पभट्ठिसूरिचरितम् वादी भवति स आनीयताम् । अस्माकं भवद्भिः सह चिरं वैरम् । यः कोऽपि वादी जयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहीष्यति । मम वादिना यदा जितं तदा त्वदीयं राज्यं मया ग्राह्यम् । यदि तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पणः वाग्युद्धमेवास्तु, किं मानवकदर्थनेन ? । आमेनोक्तम्-दूत ! त्वया यदुक्तं तद् धर्मेण कथापितं अथवा स्वतुण्डकण्डनिमात्रेणोक्तम् ? । यदि मे तव प्रभुः सप्ताङ्गं राज्यं वादे जिते समर्पयिष्यति इदं सत्यं तदा वयं वादिनमामब्यागच्छामः। दूतेनोक्तम्-कारणवशात् युधिष्ठिरेणापि द्रोणपर्वण्यसत्यं भाषितम् । मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते । आमेन दूतः प्रैपि, उक्तदिनोपरि बप्पभडिं गृहीत्वा अर्धपथे उक्तस्थाने अगमत् । धर्मभूपतिरपि वर्धनकुञ्जरं वादीन्द्रमादाय तत्राजगाम । परमारवंशनरेन्द्रमहाकविवाक्पतिनामानं स्वसेवकं सहादाय समानिन्ये । उचितप्रदेशे आवासान् दापयामास । ततो वादिप्रतिवादिनी पक्षप्रतिपक्षपरिग्रहेण वादमारेभाते । सभ्याः कौतुकाक्षिप्ताः पश्यन्ति । द्वायप्यसामान्यप्रतिभी ज्ञौ च । वादे षण्मासा गताः । द्वयोर्मध्ये कोऽपि न हारयति, कोऽपि न जयते। आमेन सूरयः प्रोक्ताः-सर्वाङ्गराजकार्याणां प्रत्यूहः स्यात् (तस्मात् ) निर्जीयतामसी शीघ्रम् । सूरिणा भणितम्-प्रभाते निग्रहीष्यामि, मा स्म वो भ्रान्तिरभूत् । रात्री सूरीश्वरेण मन्त्रशक्त्या मण्डले हारार्धहारमणिकुण्डलमण्डि. ताङ्गी दीप्ताङ्गरागवसना दिव्यकुसुमपरिमललुलितभवनोदरा भगवती भारती साक्षादागता चतुर्दशभिः काव्यैः साद्यस्कैर्दिव्यैः स्तुता। देव्या उक्तम्-वत्स! केन कारणेन स्मृता? । सूरिवरेण भणितम्-पण्मासा वादे लग्नाः, तथा कुरु यथा वादे निरुत्तरीभवति । वाग्देव्या गदितम्-वत्स! अहं अनेन प्राक् सप्तभवानाराधिता, मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ता। तत्प्रभावाच्चक्रिनिधिधनमिव नास्य वचो हीयते(?)। सूरिणोक्तम्-त्वं देवि ! जैनशासनविरोधिनी येन मे जयश्रियं न दत्से ? । भारत्यूचे-वत्स ! जयोपायं ब्रुवे, त्वया प्रातर्वादारम्भे सर्वे वदनशौचं कारणीयाः पार्पद्याः, गण्डूपं कुर्वतस्तस्य वदनाच्च गुटिका ममेच्छया पतिष्यति, तदा त्वया जेष्यति(ते), एकंतु याचे-मे स्तुतेः चतुर्दशं काव्यं कस्याप्यग्रेन प्रकाश्यम् , तत्पठने हि मया ध्रुवं प्रत्यक्षया भाव्यम् , कियतां प्रत्यक्षा भवामि ? क्लेशेनालम् । एवमुक्त्वा देवी विद्युझाङ्कारलीलया तिरोदधे । सूरिभिर्निशि परमाप्तः शिष्य एको वाक्पतिराजसमीपे प्रतिहित्योदितम् , यथा सूरयो वदन्ति-त्वं राजन् ! विद्यानिधिः, अस्माकं लक्षणावतीपुरीपरिचितचरः, तदाऽवादीः-भगवन् ! निरीहा भवन्तः, कां भवद्भक्तिं दर्शयामि ? । तदा वयं अवोचामः-अवसरे कामपि भक्तिं कारयिष्यामः। भवद्भिभणितं तथाऽस्तु । इदानीं सोऽवसरोऽत्र समायातः। वाक्पतिना सूरिशिष्यः (भणितः)किं सूरयः समादिशन्ति मे ? आदिष्टं करवै ध्रुवम् । शिष्यो न्यवेदयत्-राजन् ! गुरवः समादिशन्ति-प्रातः धर्मामयोः सदःस्थयोः सतोस्त्वया वाच्यं यथा वदनशौचं विना भारती न प्रसीदति, तस्माद् वादिप्रतिवादिसभ्यसभ्येशाः सर्वे शौचं कुर्वन्तु, एतावति कृते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348