________________
श्रीयप्पभट्ठिसूरिचरितम् वादी भवति स आनीयताम् । अस्माकं भवद्भिः सह चिरं वैरम् । यः कोऽपि वादी जयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहीष्यति । मम वादिना यदा जितं तदा त्वदीयं राज्यं मया ग्राह्यम् । यदि तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पणः वाग्युद्धमेवास्तु, किं मानवकदर्थनेन ? । आमेनोक्तम्-दूत ! त्वया यदुक्तं तद् धर्मेण कथापितं अथवा स्वतुण्डकण्डनिमात्रेणोक्तम् ? । यदि मे तव प्रभुः सप्ताङ्गं राज्यं वादे जिते समर्पयिष्यति इदं सत्यं तदा वयं वादिनमामब्यागच्छामः। दूतेनोक्तम्-कारणवशात् युधिष्ठिरेणापि द्रोणपर्वण्यसत्यं भाषितम् । मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते । आमेन दूतः प्रैपि, उक्तदिनोपरि बप्पभडिं गृहीत्वा अर्धपथे उक्तस्थाने अगमत् । धर्मभूपतिरपि वर्धनकुञ्जरं वादीन्द्रमादाय तत्राजगाम । परमारवंशनरेन्द्रमहाकविवाक्पतिनामानं स्वसेवकं सहादाय समानिन्ये । उचितप्रदेशे आवासान् दापयामास । ततो वादिप्रतिवादिनी पक्षप्रतिपक्षपरिग्रहेण वादमारेभाते । सभ्याः कौतुकाक्षिप्ताः पश्यन्ति । द्वायप्यसामान्यप्रतिभी ज्ञौ च । वादे षण्मासा गताः । द्वयोर्मध्ये कोऽपि न हारयति, कोऽपि न जयते। आमेन सूरयः प्रोक्ताः-सर्वाङ्गराजकार्याणां प्रत्यूहः स्यात् (तस्मात् ) निर्जीयतामसी शीघ्रम् । सूरिणा भणितम्-प्रभाते निग्रहीष्यामि, मा स्म वो भ्रान्तिरभूत् । रात्री सूरीश्वरेण मन्त्रशक्त्या मण्डले हारार्धहारमणिकुण्डलमण्डि. ताङ्गी दीप्ताङ्गरागवसना दिव्यकुसुमपरिमललुलितभवनोदरा भगवती भारती साक्षादागता चतुर्दशभिः काव्यैः साद्यस्कैर्दिव्यैः स्तुता। देव्या उक्तम्-वत्स! केन कारणेन स्मृता? । सूरिवरेण भणितम्-पण्मासा वादे लग्नाः, तथा कुरु यथा वादे निरुत्तरीभवति । वाग्देव्या गदितम्-वत्स! अहं अनेन प्राक् सप्तभवानाराधिता, मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ता। तत्प्रभावाच्चक्रिनिधिधनमिव नास्य वचो हीयते(?)। सूरिणोक्तम्-त्वं देवि ! जैनशासनविरोधिनी येन मे जयश्रियं न दत्से ? । भारत्यूचे-वत्स ! जयोपायं ब्रुवे, त्वया प्रातर्वादारम्भे सर्वे वदनशौचं कारणीयाः पार्पद्याः, गण्डूपं कुर्वतस्तस्य वदनाच्च गुटिका ममेच्छया पतिष्यति, तदा त्वया जेष्यति(ते), एकंतु याचे-मे स्तुतेः चतुर्दशं काव्यं कस्याप्यग्रेन प्रकाश्यम् , तत्पठने हि मया ध्रुवं प्रत्यक्षया भाव्यम् , कियतां प्रत्यक्षा भवामि ? क्लेशेनालम् । एवमुक्त्वा देवी विद्युझाङ्कारलीलया तिरोदधे । सूरिभिर्निशि परमाप्तः शिष्य एको वाक्पतिराजसमीपे प्रतिहित्योदितम् , यथा सूरयो वदन्ति-त्वं राजन् ! विद्यानिधिः, अस्माकं लक्षणावतीपुरीपरिचितचरः, तदाऽवादीः-भगवन् ! निरीहा भवन्तः, कां भवद्भक्तिं दर्शयामि ? । तदा वयं अवोचामः-अवसरे कामपि भक्तिं कारयिष्यामः। भवद्भिभणितं तथाऽस्तु । इदानीं सोऽवसरोऽत्र समायातः। वाक्पतिना सूरिशिष्यः (भणितः)किं सूरयः समादिशन्ति मे ? आदिष्टं करवै ध्रुवम् । शिष्यो न्यवेदयत्-राजन् ! गुरवः समादिशन्ति-प्रातः धर्मामयोः सदःस्थयोः सतोस्त्वया वाच्यं यथा वदनशौचं विना भारती न प्रसीदति, तस्माद् वादिप्रतिवादिसभ्यसभ्येशाः सर्वे शौचं कुर्वन्तु, एतावति कृते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org