________________
૧૯૮
चतुर्विशतिका. तु का कथा ? । अस्मिन् सूरौ धर्मस्थैर्ययुते नृपो विस्मयानन्दाभ्यां कदम्बमुकुलस्थूलरोमाञ्चकञ्चकितगात्रः संवृत्तः। दध्यौ च गुरुं ध्याने प्रत्यक्षं कृत्वा
“न्युञ्छने यामि वाक्यानां, दृशोयाम्यवतारणम् ।
बलिक्रियेह सौहार्द, हृद्याय हृदयाय ते ॥ १॥"-अनु० प्रातर्गुरवः समाजग्मुः। राजा हीणो न वदति किञ्चित् । सूरिभिर्वर्णितम्-राजन् ! मा लज्जिष्ठाः, महर्षीणां दूषणभूषणान्वेषणं राज्ञा कार्यम् , न दोषः। राज्ञोक्तम्-अलमतीतवृत्तान्तचर्यया । एतदहमुत्तम्भितभुजो ब्रुवे युष्मान् ब्रह्मधनान् समवलोक्य
"धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पधनपीनपयोधराणाम् । क्षामोदरोपरिलसत्रिवलीलतानां
दृष्ट्वाऽऽकृति विकृतिमेति मनों न येषाम् ॥ १॥"-वसन्त० इत्युक्त्वा दण्डप्रणामेन प्रणनाम आमः ॥
अन्येद्युः राजा राजपथेन सञ्चरमाणो हालिकप्रियां एरण्डबृहत्पत्रसंवृत्तस्तनविस्तरां एरण्डपत्राणि विचिन्वती गृहपा.त्यभागे दृष्ट्वा गाथार्धं योजितवान्
___तइवि वरनिग्गयदलो एरण्डो सोहइ व तरुगणाणं।" तत् सूरीणां पुरः समस्यात्वेन समर्थितवान् । सूरय ऊचुः
"इत्थ घरे हलियवहू इद्दहमित्तत्थणी वसइ।" राजा विस्मितः-अहो सारं सारस्वतम् ॥ अन्यदा सायं प्रोपितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाथार्ध प्रोचे
“दिट्ठा वंकग्गीवा अदीवउपहियजायाए ।" सूर्यग्रे पपाठ । सूरिर्गाथापूर्वार्धमुवाच
"पियंसंभरणपलुट्टतुअंसुधारानिवायभीयाए ॥ १॥" इति । सूरिभूपो सुखेन कालं गमयतो धर्मपरी ॥
अन्यदा धर्मनृपेण प्रहितः आमनृपस्य पार्श्वे दूत एत्यावोचत्-राजन् ! तव विचक्षणतया धर्मनृपः संतुष्टः, पुनः स आह-भवद्भिर्वयं छलिताः, यतो भवद्भ्यो गृहमागतेभ्यो नास्माभिर्महानल्पोऽपि सत्कारः कृतः। अधुना शृणुत-अस्मद्राज्ये वर्धनकुञ्जरो नाम महावादी बौद्धदर्शनो विदेशादागतस्तेन सह संवादं जिघृक्षुः यः कोऽपि वो राज्ये १ वाक्याय दृग्भ्यां याम्यवतारणे' इति पाठः प्रभावक-चरित्रे (पृ. १५२)। २ 'बलिविधीये सौहार्दहृद्याय हृदयाय च' इति पाठान्तरं प्रभावक-चरित्रे (पृ. १५२)। ३ तदापि वरनिर्गतदल एरण्डः शोभते एव तरुगणेषु । ४ अत्र (पात्) गृहे हालिकवधूः एतावन्मात्रस्तना वसति । ५ दृष्टावक्रग्रीवा...... ६ प्रियस्मरणप्रलुठिताश्रुधारानिपात भीत्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org