SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीबप्पट्टिसरिचरितम् ૧૯૭ तद् दृष्ट्वा आमभूपतिमापृच्छय मोढेरकं पुरं ब्रह्मशान्तिस्थापितवीरजिनमहोत्स. वाढ्यं प्रापुः, ते गुरून् ववन्दिरे । गुरवोऽपि तान् बाढमालिङ्गय आलापयांबभूवुःवत्स! गाढमुत्कण्ठितमस्माकं हृदयं, मुखकमलकमपि विस्मृतं, राजानुगमनमस्माकं दुःखायासीत् , कारय साधनं, अनृणीभव । ततोऽन्त्याराधना चतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदिना)दिना तीर्थमालावन्दनादिविधिना विधापिता, देवलोकललनानयनत्रिभागपात्रत मानझुः। शोक उच्छलितः । ततो बप्पभहिः श्रीमद्गोविन्दसूरये श्रीनन्नसूरये च गच्छभारं समर्प्य श्रीआमपार्श्व समागतः, पूर्ववत् समस्यादिगोष्ठयः स्फुरन्ति ।। __ एकदा सूरिनृपसभायां चिरं पुस्तकाक्षरदत्तदृक् तस्थौ । तत्रैका नर्तकी नृत्यन्ती आसीद् रूपदासीकृताप्सराः। सूरिईग्नीलनिवारणाय तस्याः शुकपिच्छनीलवर्णायां नीलकञ्च. लिकायां दृशं निवेशयामास । आमस्तथा दृष्ट्वा मनसि पपाठ __ "सिद्धंततत्तपारं-गयाण जोगीण जोगजुत्ताणं । जइ ताणंपि मयच्छी, मणमि ता सच्चिय पमाणं ॥१॥"-आर्या आमो रात्रौ पुंवेषितां नर्तकीं सूरिवसतौ प्रैषीत् । तया सूरीणां विश्रामणाऽऽरब्धा । करस्पर्शेन ज्ञाता युवतिः । सूरिणाऽभिहिता-का त्वम् ? कस्मादिहागता? अस्मासु ब्रह्मव्रतनिबिडेषु वराकि ! भवत्याः कोऽवकाशः ? वात्याभिर्न चलति काञ्चनाचलः । तयोक्तम्-भवद्भ्यः उपदेष्टुमागता "राष्ट्रे सारं वसुधा, वसुधायामपि पुरं पुरे सौधः। सौधे तल्पं तल्पे, वराङ्गनाऽनङ्गसर्वस्वम् ॥१॥"-आर्या इति । किञ्च "प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ।। प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥२॥"-अनु० श्रीआमेन प्रेषिताऽहं भवतां प्राणवल्लभा शुश्रूषार्थम् । ततः सूरिशको वदति स्मअस्माकं ज्ञानदृक्प्राप्तद्रव्याणां नैव व्यामोहाय प्रगल्भसे "मलमूत्रादिपात्रेषु, गात्रेषु मृगचक्षुषाम् । - रतिं करोति को नाम, सुधीर्व!गृहेष्विव ? ॥१॥"-अनु० __साऽपि निर्विकारं सूरिवरं निश्चित्य ध्वनच्चता प्रातर्नृपतिसमीपं गता। पृच्छते राजे रात्रीयः सूरिवृत्तान्तः कथितस्तया। पाषाणघटिता इव तव गुरवः । नवनीतपिण्डमयोऽशेषो वराको लोकः । यावन्तः कपटप्रपञ्चा हाव-भाव-कटाक्षक्षेप-भुजाक्षेप-चुम्बन-नखदन्तक्षतादिविलासास्ते सर्वे आजन्मशिक्षितास्तत्र प्रयुक्ताः, पुनस्तिलतुषत्रिभागमपि मनोऽस्य नाचालीत् । अनुराग-बलात्कार-फूत्कार-भीदर्शन-हत्यादानादिभिर्विभीषिकाभिरपि नाक्षुभत् । तदेष मन्ये महावज्रमयो न देवकन्याभिर्न विद्याधरी भिर्मनागङ्गनाभिश्चाल्येत, मानुषीणां सिद्धान्ततरवपारगतानां योगिनां योगयुक्तानाम् । यदि तेषामपि मृगाक्षी ममसि ततः सैव प्रमाणम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004891
Book TitleChaturvinshatika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy