________________
૧૯૬
चतुर्विंशतिका. "अंजवि सा सुमरिज्जइ को नेहो एगराईए।" सूरिहिं प्राह
"गोलानइतीरे सुन्नदेउलंमि जंसि वासमिओ ॥१॥" इत्यन्योन्यं गाढमालिलिङ्गतुरुभो । तत आम आह स्म
"अद्य मे सफला प्रीति-रद्य मे सफला रतिः।
.. अद्य मे सफलं जन्म, अद्य मे सफलं फलम् ॥१॥" रात्रौ इष्टगोष्ठी ववृते मधुमधुरा । ततः प्रभाते सूरि(णा) धर्माय आमस्य विशिष्टपुरुषा दर्शिताः। एते आमनृपनराः किलास्मानाह्वातुमायाता इति । सूरिभिरुक्तम्-आम! आगम्यताम् । धर्मेण राज्ञा पृष्टं विशिष्टजनपार्श्व-भो आमप्रधाननराः! स भवतां स्वामी कीदृग्रूपः ? । तैर्निगदितम्-यादृगयं स्थगीधरस्तादृशोऽस्ति । प्रथमं मातुलिङ्गं करे धृत्वा आम आनीतोऽस्ति । सूरिणा पृष्टम्-भोः स्थगीधर ! तव करे किमेतत् ? । स्थगीधरभूतेन आमेनोक्तम्-बीजउरा (द्वितीयो राट् ) इति । क्षणार्धेन वातामध्ये सूरिभिः सूक्तमवतारितम्"तत्तीसीयलीमेलावा केहा, धणउत्तावली पिउमंदसिणेहा।
विरहिं माणसु जे मरइ तसु कवण निहोरा कन्नि ए वत्तडी जणु जाणइ दोरा ॥१॥"" इत्यादि गोष्ठयां वर्तमानायां स्थगीधर श्रीआमराजश्चिद्रूपको मेलापकान्निःसृत्य पुराद् वहिः स्थाने स्थाने स्थापितैर्वाहनैः कियती भुवं प्रत्याक्रामत् तावता (सूरिभिर्धर्मनृपो गोपगिरिगमनाय पृष्टः, धर्मेण प्रतिज्ञा स्मारिता, सूरिभिः तत्पूर्तिः स्थगीधररूपेणामागमनेनोक्ता, प्रधानजनः) पृष्टः। तेनोक्तम्-सत्यं सूरिवचः। हस्तौ दर्शितौ, राजा तेन वाक्संवादेन प्रीतः, “अजवि सा परितप्पई" इत्यादि सर्व सारस्वतविलसितमिति निरचैषीत् । शीघ्रं शीघ्रं गोपालगिरिं गतः, पताकातोरणमञ्चप्रतिमञ्चादिमहास्तत्रासन् , दिवसाः कत्यपि अतिक्रान्ताः । ततः श्रीसिद्धसेन सूरयो वार्धकेन पीडिता अनशनं ग्रहीतुकामाः श्रीयप्पभटिसूरीणामाकारणाय गीतार्थयुगलं प्रेषिषुः, तं गुरोर्लेखमदीदृशत्। तत्र लिखितं यथा
"अध्यापितोऽसि पदवीमधिरोपितोऽसि
तत् किंचनापि कुरु बप्पभट्टे(टे)! प्रयत्नात् । प्रायोपवेशनरथे विनिवेश्य येन
संप्रेषयस्यमरधाम नितान्तमस्मान् ॥१॥"-बसन्त १ अद्यापि सा स्मर्यते कः स्नेह एकराया। २ गोदावरीनदीतीरे शून्यदेवकुले यदसि वासमितः ॥१॥ ३ तप्तशीतलयोर्मेलापकः कीदृशः? धनपुत्रवलिनोः प्रियमन्दस्नेहयोः ।
विरहे मनुष्यो यो म्रियते तस्य किं निष्क्रयणं? कर्णे एषा वार्ता जनो जानाति दुर्लभम् ॥१॥ ४ तच्छीसी भलामेलावा केहा जण उत्तावली प्रियमंदसिणेहाविरहिहिं । माणसुजं मरइ तसु कवण निहोरा कलिपवित्तडी जुणु जाणइ दोरा ॥' इति पाठःप्रभावक-चरित्रे (पृ०१४४)।
५ एतद्दाथाया अर्थानां साष्टकं शतं व्याख्यातं बप्पभट्रिसूरिभिः, परन्तु न च सर्वेऽधुना कम्यन्ते, अर्थचतुष्टयं तु प्रभाषकचरित्रे श्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org