Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 304
________________ ૧૯૮ चतुर्विशतिका. तु का कथा ? । अस्मिन् सूरौ धर्मस्थैर्ययुते नृपो विस्मयानन्दाभ्यां कदम्बमुकुलस्थूलरोमाञ्चकञ्चकितगात्रः संवृत्तः। दध्यौ च गुरुं ध्याने प्रत्यक्षं कृत्वा “न्युञ्छने यामि वाक्यानां, दृशोयाम्यवतारणम् । बलिक्रियेह सौहार्द, हृद्याय हृदयाय ते ॥ १॥"-अनु० प्रातर्गुरवः समाजग्मुः। राजा हीणो न वदति किञ्चित् । सूरिभिर्वर्णितम्-राजन् ! मा लज्जिष्ठाः, महर्षीणां दूषणभूषणान्वेषणं राज्ञा कार्यम् , न दोषः। राज्ञोक्तम्-अलमतीतवृत्तान्तचर्यया । एतदहमुत्तम्भितभुजो ब्रुवे युष्मान् ब्रह्मधनान् समवलोक्य "धन्यास्त एव धवलायतलोचनानां तारुण्यदर्पधनपीनपयोधराणाम् । क्षामोदरोपरिलसत्रिवलीलतानां दृष्ट्वाऽऽकृति विकृतिमेति मनों न येषाम् ॥ १॥"-वसन्त० इत्युक्त्वा दण्डप्रणामेन प्रणनाम आमः ॥ अन्येद्युः राजा राजपथेन सञ्चरमाणो हालिकप्रियां एरण्डबृहत्पत्रसंवृत्तस्तनविस्तरां एरण्डपत्राणि विचिन्वती गृहपा.त्यभागे दृष्ट्वा गाथार्धं योजितवान् ___तइवि वरनिग्गयदलो एरण्डो सोहइ व तरुगणाणं।" तत् सूरीणां पुरः समस्यात्वेन समर्थितवान् । सूरय ऊचुः "इत्थ घरे हलियवहू इद्दहमित्तत्थणी वसइ।" राजा विस्मितः-अहो सारं सारस्वतम् ॥ अन्यदा सायं प्रोपितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाथार्ध प्रोचे “दिट्ठा वंकग्गीवा अदीवउपहियजायाए ।" सूर्यग्रे पपाठ । सूरिर्गाथापूर्वार्धमुवाच "पियंसंभरणपलुट्टतुअंसुधारानिवायभीयाए ॥ १॥" इति । सूरिभूपो सुखेन कालं गमयतो धर्मपरी ॥ अन्यदा धर्मनृपेण प्रहितः आमनृपस्य पार्श्वे दूत एत्यावोचत्-राजन् ! तव विचक्षणतया धर्मनृपः संतुष्टः, पुनः स आह-भवद्भिर्वयं छलिताः, यतो भवद्भ्यो गृहमागतेभ्यो नास्माभिर्महानल्पोऽपि सत्कारः कृतः। अधुना शृणुत-अस्मद्राज्ये वर्धनकुञ्जरो नाम महावादी बौद्धदर्शनो विदेशादागतस्तेन सह संवादं जिघृक्षुः यः कोऽपि वो राज्ये १ वाक्याय दृग्भ्यां याम्यवतारणे' इति पाठः प्रभावक-चरित्रे (पृ. १५२)। २ 'बलिविधीये सौहार्दहृद्याय हृदयाय च' इति पाठान्तरं प्रभावक-चरित्रे (पृ. १५२)। ३ तदापि वरनिर्गतदल एरण्डः शोभते एव तरुगणेषु । ४ अत्र (पात्) गृहे हालिकवधूः एतावन्मात्रस्तना वसति । ५ दृष्टावक्रग्रीवा...... ६ प्रियस्मरणप्रलुठिताश्रुधारानिपात भीत्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348