Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 307
________________ श्रीवप्पभट्टिसरिचरितम् ૨૦૧ द्वयोस्तयोमैत्री पूर्वमेवासीत् , तदानीं विशेषतोऽवृधत् । तेन वाक्पतिना सह महविजयाख्यं प्राकृतं महाकाव्यं वद्धम् , आमाय दर्शितम् । आमो हैमटङ्ककं लक्षमस्मै व्य(शि)श्रियत् । "कियती पञ्चसहस्री, कियती लक्षा च कोटिरपि कियती ? । __ औदार्योन्नतमनसां, रत्नवती वसुमती कियती ? ॥ १॥"-आर्या अपरेधुः प्रभुः श्रीआमेन पृष्टः-भगवन् ! यूयं विद्यया तपसा च लोके लब्धपरमलेखाः, किमन्योऽपि कोऽपि क्वाप्यास्ते यो भवतस्तुलालेशमवाप्नोति ? । यप्पभट्टिरभाणीत्-अवनिपते ! मम गुरुवान्धवौ गोविन्दाचार्यनन्नसूरी सर्वैगुणैर्मदधिको गुर्जरधरायां, (श्रुत्वा राजा तत्र सूरिपार्श्वे गतः प्रच्छन्नः, सूरिश्च प्रसंगागतान् ) कामाक्तान् रागवादान् पल्लवयन्नासीत् । राज्ञा श्रुतं तत् सर्व, अरुचिरुत्पन्ना । अहो ! वयं कामिनोऽपि नैतान् भावान् विद्मः, अयं तु वेत्ति सम्यक्, तस्मादवश्यं नित्यं योपित्सङ्गी, किमस्य प्रणामेन ?। अकृतनतिरेव उत्थाय राजा गोपगिरिमगात् । चिराद् दृष्टः क्षमाप इति रणरणकाक्रान्त स्वान्ता गुरवो वन्दापयितुमैयरुः। राजा निरादरो न वन्दते तथा । एवं कतिपयानि दिनानि गतानि । एकदा गुरुभिः पप्रच्छे-राजन् ! यथा पुराऽभूस्त्वं तथेदानी भक्तो नासि, किमस्माकं दोपः कोऽपि ?। राजा स्माह-सृरिवर! भवादृशा अपि कुपात्रश्लाघां कुर्वते, किमुच्यते? । सूरिरूचे-कथम् ? आमः प्राह-यो भवद्भिः स्वौ गुरुवान्धवौ स्तुती तत्र गत्वा एको नन्नसूरिनामा दृष्टः शृङ्गारकथाव्याख्यानलम्पटस्तपोहीनो लोहतरण्डतुल्यो गजयति च भवाब्धी, तस्मान्न किञ्चिदेतत् । सूरयो मपीमलिनवदनाः स्वां वसतिमगुः । तत्रोपविश्य द्वौ साधू मोढेर(क)पुरं प्रहितौ तत्पाचे, तत्र कथापितम्-आमः अकृतप्रणामो भवत्पाादागतः, एवमेवं युवां निन्दति, तत् कर्तव्यं येनासौ भवत्स्वन्येष्वपि श्रवणेष्ववज्ञावान्न जायेत । सर्व तत्रत्यं ज्ञात्वा तौ द्वावपि गुटिकया वर्णस्वरपरावर्त कृत्वा वेषधरौ गोपगिरिमीयतुः। श्रीऋपभध्वजप्रवन्धनाटकं नवं ववन्धतुः । नटान् शिक्षयामासतुः । आमराजं अवसरं ययाचतुः । राज्ञा अवसरो दत्तः । मिलिताः सामाजिकाः तत्र तद्रसभावज्ञाः । ताभ्यां तन्नाटकं दर्शयितुमारेभे । भरतवाहुबलिसमरावसरोऽभिधीयते, तदा व्यूहरचनाशस्त्रड(झ?)लक्कारवीरवर्णनाभट्टकोलाहलाश्वोत्थापनझल्लरिझणझणकारादि ताभ्यां वर्णितुमारब्धं धारारूढश्च रसोऽवातारीत् , अत्रान्तरे नन्नसूरिगोविन्दाचायौँ स्वरूपमुद्रे प्रकाश्य आहतुः-राजन् ! भट्टा भट्टाः! शृणुत कथायुद्धमिदं, न तु साक्षात् , अलं सम्भ्रमेण, इत्युक्त्वा लज्जिता विस्मिताश्च ते राजाद्याः संवृत्याकारमस्थुः । . 'मदमहीविजः' इति पाठः प्रभावक-चरित्रे (पृ० १६१)। २ तस्य वर्णनं प्रभावक-चरित्रे (पृ० १६२) "तयानैकमनीभूय, चकर्ष क्षुरिकां निजाम् । मारिमारीति शब्देन, नदन सिंह इव क्रुधा ॥ १॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348