________________
श्रीवप्पभट्टिसरिचरितम्
૨૦૧ द्वयोस्तयोमैत्री पूर्वमेवासीत् , तदानीं विशेषतोऽवृधत् । तेन वाक्पतिना सह महविजयाख्यं प्राकृतं महाकाव्यं वद्धम् , आमाय दर्शितम् । आमो हैमटङ्ककं लक्षमस्मै व्य(शि)श्रियत् ।
"कियती पञ्चसहस्री, कियती लक्षा च कोटिरपि कियती ? । __ औदार्योन्नतमनसां, रत्नवती वसुमती कियती ? ॥ १॥"-आर्या
अपरेधुः प्रभुः श्रीआमेन पृष्टः-भगवन् ! यूयं विद्यया तपसा च लोके लब्धपरमलेखाः, किमन्योऽपि कोऽपि क्वाप्यास्ते यो भवतस्तुलालेशमवाप्नोति ? । यप्पभट्टिरभाणीत्-अवनिपते ! मम गुरुवान्धवौ गोविन्दाचार्यनन्नसूरी सर्वैगुणैर्मदधिको गुर्जरधरायां, (श्रुत्वा राजा तत्र सूरिपार्श्वे गतः प्रच्छन्नः, सूरिश्च प्रसंगागतान् ) कामाक्तान् रागवादान् पल्लवयन्नासीत् । राज्ञा श्रुतं तत् सर्व, अरुचिरुत्पन्ना । अहो ! वयं कामिनोऽपि नैतान् भावान् विद्मः, अयं तु वेत्ति सम्यक्, तस्मादवश्यं नित्यं योपित्सङ्गी, किमस्य प्रणामेन ?। अकृतनतिरेव उत्थाय राजा गोपगिरिमगात् । चिराद् दृष्टः क्षमाप इति रणरणकाक्रान्त स्वान्ता गुरवो वन्दापयितुमैयरुः। राजा निरादरो न वन्दते तथा । एवं कतिपयानि दिनानि गतानि । एकदा गुरुभिः पप्रच्छे-राजन् ! यथा पुराऽभूस्त्वं तथेदानी भक्तो नासि, किमस्माकं दोपः कोऽपि ?। राजा स्माह-सृरिवर! भवादृशा अपि कुपात्रश्लाघां कुर्वते, किमुच्यते? । सूरिरूचे-कथम् ? आमः प्राह-यो भवद्भिः स्वौ गुरुवान्धवौ स्तुती तत्र गत्वा एको नन्नसूरिनामा दृष्टः शृङ्गारकथाव्याख्यानलम्पटस्तपोहीनो लोहतरण्डतुल्यो गजयति च भवाब्धी, तस्मान्न किञ्चिदेतत् । सूरयो मपीमलिनवदनाः स्वां वसतिमगुः । तत्रोपविश्य द्वौ साधू मोढेर(क)पुरं प्रहितौ तत्पाचे, तत्र कथापितम्-आमः अकृतप्रणामो भवत्पाादागतः, एवमेवं युवां निन्दति, तत् कर्तव्यं येनासौ भवत्स्वन्येष्वपि श्रवणेष्ववज्ञावान्न जायेत । सर्व तत्रत्यं ज्ञात्वा तौ द्वावपि गुटिकया वर्णस्वरपरावर्त कृत्वा वेषधरौ गोपगिरिमीयतुः। श्रीऋपभध्वजप्रवन्धनाटकं नवं ववन्धतुः । नटान् शिक्षयामासतुः । आमराजं अवसरं ययाचतुः । राज्ञा अवसरो दत्तः । मिलिताः सामाजिकाः तत्र तद्रसभावज्ञाः । ताभ्यां तन्नाटकं दर्शयितुमारेभे । भरतवाहुबलिसमरावसरोऽभिधीयते, तदा व्यूहरचनाशस्त्रड(झ?)लक्कारवीरवर्णनाभट्टकोलाहलाश्वोत्थापनझल्लरिझणझणकारादि ताभ्यां वर्णितुमारब्धं धारारूढश्च रसोऽवातारीत् , अत्रान्तरे नन्नसूरिगोविन्दाचायौँ स्वरूपमुद्रे प्रकाश्य आहतुः-राजन् ! भट्टा भट्टाः! शृणुत कथायुद्धमिदं, न तु साक्षात् , अलं सम्भ्रमेण, इत्युक्त्वा लज्जिता विस्मिताश्च ते राजाद्याः संवृत्याकारमस्थुः ।
. 'मदमहीविजः' इति पाठः प्रभावक-चरित्रे (पृ० १६१)। २ तस्य वर्णनं प्रभावक-चरित्रे (पृ० १६२)
"तयानैकमनीभूय, चकर्ष क्षुरिकां निजाम् । मारिमारीति शब्देन, नदन सिंह इव क्रुधा ॥ १॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org