________________
२०२
चतुर्विशतिका. तदा गोविन्दाचार्यनन्नसूरिभ्यां भूयोऽप्यभाणि-किल शृङ्गारानुभविनो वयं इति तं सम्यक् व्याख्यातुं विद्मः, किं समराजिरमपि भवद्वत् प्रविष्टाः स्मः? कुरङ्गा इव शस्त्रे दृष्टेऽपि बिभिमः, आवाल्याद् गृहीतव्रताः परे भीरवः स्मः, परं भारतीप्रभाववचनशक्त्या रसान् सर्वान् जीवद्रू(पा)निव दर्शयामः । मोढेरके ये ते वात्स्यायनभावव्याख्याता(र): ते वयं नन्नसूरयः, इमे च गोविन्दाचार्याः, भवतां तदा मृपा विकल्पः समजनि। राजा सद्यो ललज्जे, तौ सूरी क्षमयामास, आनर्च बप्पभडिं च । तौ कतिचिद् दिनानि उपराज स्थित्वा बप्पभयनुज्ञया पुनर्मोढेरकपुरमगाताम् । गतः समयः कियानपि ॥
अन्यदा गाथकवृन्दमागतं तन्मध्ये बालिकैका सतालं नीलोत्पललोचना मृगाङ्कमुखी किन्नरस्वरा विदुषी गायति । तां दृष्ट्वा मदनशरजर्ज(रः स्म)रोत्कटज्वरो गलितविवेको गतप्रायशौचधर्माभिनिवेशः कान्यकुब्जेशः पद्यद्वयं प्रभुप्रत्यक्षमपाठीत्
"वक्रं पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः
कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातद्रुमाः। वाणी कामदुघा कटाक्षलहरी सा कालकूटच्छटा
तत् किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धाम्बुधिः ? ॥१॥-शार्दूल. जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो
दूरे शोभा वपुपि निहिता पङ्कशङ्कां तनोति । विश्वप्रार्थ्यः सकलसुरभिद्रव्यगर्वापहारी
नो जानीमः परिमलगुणो वस्तुकस्तूरिकायाः ॥२॥"-मन्दाक्रान्ता सूरिभिश्चिन्तितम्-अहो ! महतामपि कीदृग् मतिविपर्यासः"भस्त्रा काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी
सा संस्कारशतैः क्षणार्धमधुरां वाह्यामुपैति द्युतिम् । अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ताधियाऽऽ
श्लिष्यन्ति स्तवने नमन्ति चतुराः कस्यात्र पूत्कुर्महे ? ॥१॥"-शार्दूल० उत्थिता च सभा । त्रिभिर्दिनैर्भूपेन पुर्या बहिः सौधं कारितं मातङ्गीसहितोऽत्र वत्स्यामि इति धिया । तदवगतं बप्पभटिसूरिभिः। ध्यानप्रत्यक्षं हि तेषां जगद्वृत्तम् । ततोऽसौ कुकर्मणा नरकं मा यासीदिति कृपया तैर्निष्पद्यमाने सौधे भारपट्टे निशि खटिकया बोधिदानि पद्यानि लिखितानि । यथा
वत् कालकूटं विषं' इति पाठः प्रभावक-चरित्रे (पृ० १६४)। . 'दुग्धोदधिः' इति प्रभावक-चरित्र-पाठः। ३ 'कस्तु कस्तु०' इति पाठ उपदेश-रत्नाकरे (पत्रं ५७)। .' ' इति उपदेश-रक्षाकर-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org