Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 296
________________ ૧૦ चतुर्विशतिका. अभिषिक्तश्च राज्ये । शिक्षितश्च प्रजापालनादौ । एतत् कृत्वा यशोधर्माऽऽहतं त्रिधा शुद्ध्या शरणं श्रयन् द्यां गतः । आमो राजा पितुरौर्षदेहिकं कृतवान्, द्विजातिदीनलोकाय वित्तं दत्तवान् । लक्षद्वयमश्वानां, हस्तिनां रथानां च प्रत्येकं चतुर्दशशती, एका कोटी पदातीनां, एवं राज्यश्री श्रीआमस्य न्यायारामस्य । तथा(पि) बप्प(भट्टि)मित्रं विना पलालपूलप्रायं मन्यते स्म सः। ततो मित्रानयनाय प्रधानपुरुषानप्रेषीत् । तैस्तत्र गत्वा विज्ञप्तम् -श्रीबप्पभो! आमराजः समत्कण्ठयाऽऽहयति, आगम्यताम् । बप्पमहिना गुरूणां वदनकमलमवलोकितं, तैः सङ्घानुमत्या गीतार्थयतिभिः समं बप्प(भट्टि)मुनिःप्रहितः, आमस्य पुरं गोपालगिरि प्राप । राजा सबलवाहनः सम्मुखमगात् । प्रविश्य(वेश?) महमकापीत्, सौधमनैपीत्, अवोचत्-भगवन् ! अर्धराज्यं गृहाण । तेनोक्तम्-अस्माकं निम्रन्थानां सावधेन राज्येन किं प्रयोजनम् ? । यतः "अनेकयोनिसम्पाता-नन्तबाधाविधायिनी । __ अभिमानफलैवेयं, राज्यश्रीः साऽपि नश्वरी ॥१॥"-अनु० ततो राज्ञाऽसौ तुङ्गगृहे स्थापितः । प्रातः समागताय बप्पभये नृपेण सिंहासनं भण्डापितम् । तेन गदितम्-उर्वीपते! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशातना भवेत् । ततो राज्ञा बप्पाः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः, विज्ञप्तिका च दत्ता-यदि प्राणैः कार्य तदा प्रसद्य सद्योऽयं महर्षिः सूरिपदे स्थाप्यः, (यतः) “योग्यं सुतं च शिष्यं च, नयन्ति गुरवः श्रियम्", स्थापितमात्रश्चात्र शीघ्रं प्रेषणीयः, अन्यथाऽहं न भवामि, मा विलम्बताम् । अखण्डप्रयाणकर्मोढेरकं प्राप्तः । प्रभो! राज्ञो विज्ञप्त्यर्थी अनुसायोः, उचितज्ञा हि भवादृशाः ॥ ___ अथ श्रीसिद्धसेनाचार्यप्पभट्टिः सूरिपदे स्थापितः । तदङ्गे श्रीः साक्षादिव सङ्कामन्ती दृष्टा । रहसि शिक्षा दत्ता-वत्स! तव राजसत्कारो भृशं भावी । ततश्च लक्ष्मीः प्रवस्य॑ति । तत्र इन्द्रियजयो दुष्करः । त्वं ब्रह्मचारी महान् भवेः । “विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः" अनेन महाव्रतेन महत्तरः स्फुरिष्यसि । ___ "एकादशेऽधिके तत्र, जाते वर्षशताष्टके।। विक्रमाख्येऽभवत् सूरिः, कृष्णचैत्राष्टमीदिने ॥ १॥"-अनु० गुरुणा आमराजसमीपे प्रेषितः । तत्र प्राप्तः गोपालगिरेः प्रासुके वनोद्देशे स्थितः। राजा अभ्यागत्य महामहेन तं पुरीं प्रावीविशत् । श्रीबप्पभट्टिसूरिणा तत्र देशना क्लेशनाशिनी कृता१ तच्छ्रुत्वा श्रीवप्पभट्टिसूरिर्यदकरोत् तत् कथ्यते "भक्तं भक्तस्य लोकस्य, विकृतीश्चाखिला अपि । आजन्म नैव भोक्ष्येह-ममुं नियममग्रहीत् ॥"-प्रभावक० (पृ. १३५) २ 'विक्रमात् सोऽभवत्' इति पाठः प्रभावकचरित्रे (पृ० ११५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348