________________
૧૦
चतुर्विशतिका. अभिषिक्तश्च राज्ये । शिक्षितश्च प्रजापालनादौ । एतत् कृत्वा यशोधर्माऽऽहतं त्रिधा शुद्ध्या शरणं श्रयन् द्यां गतः । आमो राजा पितुरौर्षदेहिकं कृतवान्, द्विजातिदीनलोकाय वित्तं दत्तवान् । लक्षद्वयमश्वानां, हस्तिनां रथानां च प्रत्येकं चतुर्दशशती, एका कोटी पदातीनां, एवं राज्यश्री श्रीआमस्य न्यायारामस्य । तथा(पि) बप्प(भट्टि)मित्रं विना पलालपूलप्रायं मन्यते स्म सः। ततो मित्रानयनाय प्रधानपुरुषानप्रेषीत् । तैस्तत्र गत्वा विज्ञप्तम् -श्रीबप्पभो! आमराजः समत्कण्ठयाऽऽहयति, आगम्यताम् । बप्पमहिना गुरूणां वदनकमलमवलोकितं, तैः सङ्घानुमत्या गीतार्थयतिभिः समं बप्प(भट्टि)मुनिःप्रहितः, आमस्य पुरं गोपालगिरि प्राप । राजा सबलवाहनः सम्मुखमगात् । प्रविश्य(वेश?) महमकापीत्, सौधमनैपीत्, अवोचत्-भगवन् ! अर्धराज्यं गृहाण । तेनोक्तम्-अस्माकं निम्रन्थानां सावधेन राज्येन किं प्रयोजनम् ? । यतः
"अनेकयोनिसम्पाता-नन्तबाधाविधायिनी ।
__ अभिमानफलैवेयं, राज्यश्रीः साऽपि नश्वरी ॥१॥"-अनु० ततो राज्ञाऽसौ तुङ्गगृहे स्थापितः । प्रातः समागताय बप्पभये नृपेण सिंहासनं भण्डापितम् । तेन गदितम्-उर्वीपते! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशातना भवेत् । ततो राज्ञा बप्पाः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः, विज्ञप्तिका च दत्ता-यदि प्राणैः कार्य तदा प्रसद्य सद्योऽयं महर्षिः सूरिपदे स्थाप्यः, (यतः) “योग्यं सुतं च शिष्यं च, नयन्ति गुरवः श्रियम्", स्थापितमात्रश्चात्र शीघ्रं प्रेषणीयः, अन्यथाऽहं न भवामि, मा विलम्बताम् । अखण्डप्रयाणकर्मोढेरकं प्राप्तः । प्रभो! राज्ञो विज्ञप्त्यर्थी अनुसायोः, उचितज्ञा हि भवादृशाः ॥ ___ अथ श्रीसिद्धसेनाचार्यप्पभट्टिः सूरिपदे स्थापितः । तदङ्गे श्रीः साक्षादिव सङ्कामन्ती दृष्टा । रहसि शिक्षा दत्ता-वत्स! तव राजसत्कारो भृशं भावी । ततश्च लक्ष्मीः प्रवस्य॑ति । तत्र इन्द्रियजयो दुष्करः । त्वं ब्रह्मचारी महान् भवेः । “विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः" अनेन महाव्रतेन महत्तरः स्फुरिष्यसि ।
___ "एकादशेऽधिके तत्र, जाते वर्षशताष्टके।।
विक्रमाख्येऽभवत् सूरिः, कृष्णचैत्राष्टमीदिने ॥ १॥"-अनु० गुरुणा आमराजसमीपे प्रेषितः । तत्र प्राप्तः गोपालगिरेः प्रासुके वनोद्देशे स्थितः। राजा अभ्यागत्य महामहेन तं पुरीं प्रावीविशत् । श्रीबप्पभट्टिसूरिणा तत्र देशना क्लेशनाशिनी कृता१ तच्छ्रुत्वा श्रीवप्पभट्टिसूरिर्यदकरोत् तत् कथ्यते
"भक्तं भक्तस्य लोकस्य, विकृतीश्चाखिला अपि ।
आजन्म नैव भोक्ष्येह-ममुं नियममग्रहीत् ॥"-प्रभावक० (पृ. १३५) २ 'विक्रमात् सोऽभवत्' इति पाठः प्रभावकचरित्रे (पृ० ११५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org