Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१८१
श्रीवप्पभट्टिसरिचरित "श्रीरियं प्रायशः पुंसा-मुपस्कारैककारणम् ।
तामुपस्कुर्वते ये तु, रत्नसूस्तैरसौ रसा ॥ १॥"-अनु० _ आमेन गुरूपदेशादेकोत्तरशतहस्तप्रमाणः प्रासादः कारितोः गोपगिरी, अष्टादशभारप्रमाणं श्रीवर्धमान विम्बं तत्र निवेशयांबभूव, प्रतिष्ठा विभावयांचके । तत्र चैत्ये मूलमण्डपः सपादलक्षसौवर्णटङ्ककैर्निप्पन्नः इति वृद्धाः प्राहुः । आमः कुञ्जरारूढः सर्वा चैत्यवन्दनाय याति, मिथ्यादृशां दृशौ सैन्धवेन पूर्येते, सम्यग्दृशाममृतेनैव । एवं प्रभाववान् प्रातर्नृपोऽमूल्यमनर्थ्य सिंहासनं सूरये निवेशापयति । तद् दृष्ट्वा विप्रैः क्रुधा ज्वलद्भिः भूपो विज्ञप्तः-देव! श्वेताम्बरा अमी शूद्राः, एभ्यः सिंहासनं किम् ? अधस्तात् परं ह्रसीयो भवतु । मुहुर्मुहुस्तैरित्थं विज्ञप्त्या कदर्थ्यमानः पार्थिवो मूलसिंहासनं कोशगं कारयित्वाऽन्यत् लध्वारोपयत् , प्रत्यूषे सूरीन्द्रेण दृष्ट्वा रुष्टेनेव राज्ञोऽग्रे पठितम्
"मर्दय मानमतङ्गजदर्प, विनयशरीरविनाशनसर्पम् ।
क्षीणो दर्पाद् दशवदनोऽपि, यस्य न तुल्यो भुवने कोऽपि ॥१॥' इदं श्रुत्वा राज्ञा हीणेन सदा भूयो मूलसिंहासनमनुज्ञातम् । अपराधः क्षामितः ॥ एकदा सपादकोटी हेनो दत्ता गुरुभ्यः । तैर्निरीहैः सा जीर्णोद्धारे ऋद्धियुक्तश्रावकपाः
व्ययिता॥
अन्यदा शुद्धान्ते प्रम्लानवदनां वल्लभां दृष्ट्वा प्रभोः पुरो गाथाध राजा प्राह___ "अजवि सा परितप्पइ, कमलमुही अप्पणो पमाएणं ।”
"सुत्तविउद्धेण तए, जीसे पच्छाइयं अंगं ॥१॥"-आर्या उत्तरार्धन प्रभुणा प्रत्युत्तरं दत्तम् । राजा आत्मसंवादात् चमत्कृतः ॥ अन्यदा प्रियां पदे पदे मन्दं सञ्चरन्तीं दृष्ट्वा गाथाधं राजा जगाद
"बाला चंकम्मंती, पए पए कीस कुणइ मुहभंगं ?।"
__ "नूणं रमणपएसे, मेहलिया छिवइ नहपंती ॥१॥"-आर्या एतदूर्ध्व समस्यया पूरितं गुरुणा । इदं श्रुत्वा राजा मुखं निश्वासाहतदर्पणसमं दधे अमी मदन्तःपुरे कृतविप्लवा इति धिया, तच्चाचार्यैः क्षणार्धनावगतम्, चिन्तितं च-अहो! विद्यागुणोऽपि दोषतां गतः
"जलधेरपि कल्लोला-श्चापलानि कपेरपि ।
शक्यन्ते यत्नतो रोर्बु, न पुनःप्रभुचेतसः॥१॥"-अनु० रात्रौ सूरिः सङ्घमनापृच्छय राजद्वारकपाटसम्पुटतटे काव्यमेकं लिखित्वा पुराद् बहिर्ययो । तद्यथा
१ अद्यापि सा परितपति, कमलमुखी आत्मनः प्रमादेन ।
सुप्तविबुद्धेन त्वया, यस्याः प्रच्छादितमङ्गम् ॥ १॥ २ बाला चक्राम्यन्ती, पदे पदे कुतः कुरुते मुखभङ्गम्।। नूनं रमणप्रदेशे, मेखलया स्पृश्यते नखपतिः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/96fafa53a1759f1c78e36347182d3d68f9d4effd3187603177838d31ca586e50.jpg)
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348