Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः ]
१४५
छन्दःशास्त्रम् ।
सप्तमोऽध्यायः ।
इदानीमतिजगती शकतिशक्कर्यष्टिरत्यष्टिर्धृतिरतिधृतिवेति सप्त अतिच्छन्दांसि एकेकाक्षरवृद्ध्या क्रमेणोदाह्रियन्ते ।
तत्र
( अतिजगल्याम् )
१. 'अतिजगतीच्छन्दः पादघटकीभूतानां त्रयोदशसंख्याकानामक्षराणां प्रस्तारे कृते एकशतद्विनवत्यधिकाष्टसहस्र ( ८१९२ ) मेदा जायन्ते । तेषु च मेदचतुष्कमेवात्र समुपदिष्टमिति ग्रन्थान्तरेभ्यः समुपलभ्यमाना मेदा अत्र विनिर्दिश्यन्ते । यथा -- सुनन्दिनीच्छन्दः (१३/२३६ ) - 'सुनन्दिनी सजसा मगौ ।'
ग० पु० १२०९।२१. कन्दुकच्छन्दः (१३।५८६ ) - 'इदं कन्दुकं यत्र येभ्यश्चतुभ्यों गः ।' चञ्चरीकावलीच्छन्दः (१३।११५४ ) - ' यमौ रौ विख्याता चञ्चरीकावली गः ।' वृ० र ० 'मञ्जरीकावली' इति क्वचित् । विश्वच्छन्दः (१३।११७१) - चतुर्भिर्युतं गेन युक्तं च विश्वम् |' अ०वृ०र० चंद्रलेखाच्छन्दः (१३।११८४ ) -- 'नसरयुगगैचन्द्रलेखर्तुलोकैः ।'
वृत्तरत्नाकरपरिशिष्टे । उर्वशीच्छन्दः (१३।१३२४ ) - 'उर्वशी नखतरगा राज्याज्ञैर्ऋतुभिर्यतिः ।'
मं० म०
मोहप्रलापच्छन्दः (१३/१३२९ ) - 'मोहप्रलापः श्रुतिभिर्ब्रहैर्भिनो भभत्रगाः ।' मं० म०
चन्द्रिकाच्छन्दः (१३/१३४४ ) - 'ननतरगुरुभिचन्द्रिकाश्वषङ्गिः । वृ० २० मृगेन्द्रमुखच्छन्दः (१३।१३९२ ) - 'भवति मृगेन्द्रमुखं नजो जरौ गः ।' तारकच्छन्दः (१३।१७५६ ) - 'यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम्' वाणीभूषणे २।१५१.
चण्डीच्छन्दः (१३।१७९२ ) - ' नयुगलसयुगलगेरिति चण्डी ।' वृत्तरत्नाकरछन्दोमञ्जर्यादिषु । उपस्थितच्छन्दः (१३।१८२२ ) - ' उपस्थितमिदं ज्सौ त्सौ सगुरुको चेत् । ' कुटजगतिच्छन्दः (१३।२०९६ ) – 'कुटजगतिर्नजी पञ्चर्तु तौ गुरुः ।' क्षमाच्छन्दः (१३।२३६८ ) - ' तुरगरसयतिन ततौ गः क्षमा ।' वृ० २० अस्यैव छन्दसः ‘विद्युत्', ‘उत्पलिनी'ति च नामान्तरे | मञ्जुहासिनीच्छन्दः (१३।२७९० ) - जती सजौ गो भवति मधुहासिनी ।' छ० शा ० १३

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322