SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] १४५ छन्दःशास्त्रम् । सप्तमोऽध्यायः । इदानीमतिजगती शकतिशक्कर्यष्टिरत्यष्टिर्धृतिरतिधृतिवेति सप्त अतिच्छन्दांसि एकेकाक्षरवृद्ध्या क्रमेणोदाह्रियन्ते । तत्र ( अतिजगल्याम् ) १. 'अतिजगतीच्छन्दः पादघटकीभूतानां त्रयोदशसंख्याकानामक्षराणां प्रस्तारे कृते एकशतद्विनवत्यधिकाष्टसहस्र ( ८१९२ ) मेदा जायन्ते । तेषु च मेदचतुष्कमेवात्र समुपदिष्टमिति ग्रन्थान्तरेभ्यः समुपलभ्यमाना मेदा अत्र विनिर्दिश्यन्ते । यथा -- सुनन्दिनीच्छन्दः (१३/२३६ ) - 'सुनन्दिनी सजसा मगौ ।' ग० पु० १२०९।२१. कन्दुकच्छन्दः (१३।५८६ ) - 'इदं कन्दुकं यत्र येभ्यश्चतुभ्यों गः ।' चञ्चरीकावलीच्छन्दः (१३।११५४ ) - ' यमौ रौ विख्याता चञ्चरीकावली गः ।' वृ० र ० 'मञ्जरीकावली' इति क्वचित् । विश्वच्छन्दः (१३।११७१) - चतुर्भिर्युतं गेन युक्तं च विश्वम् |' अ०वृ०र० चंद्रलेखाच्छन्दः (१३।११८४ ) -- 'नसरयुगगैचन्द्रलेखर्तुलोकैः ।' वृत्तरत्नाकरपरिशिष्टे । उर्वशीच्छन्दः (१३।१३२४ ) - 'उर्वशी नखतरगा राज्याज्ञैर्ऋतुभिर्यतिः ।' मं० म० मोहप्रलापच्छन्दः (१३/१३२९ ) - 'मोहप्रलापः श्रुतिभिर्ब्रहैर्भिनो भभत्रगाः ।' मं० म० चन्द्रिकाच्छन्दः (१३/१३४४ ) - 'ननतरगुरुभिचन्द्रिकाश्वषङ्गिः । वृ० २० मृगेन्द्रमुखच्छन्दः (१३।१३९२ ) - 'भवति मृगेन्द्रमुखं नजो जरौ गः ।' तारकच्छन्दः (१३।१७५६ ) - 'यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम्' वाणीभूषणे २।१५१. चण्डीच्छन्दः (१३।१७९२ ) - ' नयुगलसयुगलगेरिति चण्डी ।' वृत्तरत्नाकरछन्दोमञ्जर्यादिषु । उपस्थितच्छन्दः (१३।१८२२ ) - ' उपस्थितमिदं ज्सौ त्सौ सगुरुको चेत् । ' कुटजगतिच्छन्दः (१३।२०९६ ) – 'कुटजगतिर्नजी पञ्चर्तु तौ गुरुः ।' क्षमाच्छन्दः (१३।२३६८ ) - ' तुरगरसयतिन ततौ गः क्षमा ।' वृ० २० अस्यैव छन्दसः ‘विद्युत्', ‘उत्पलिनी'ति च नामान्तरे | मञ्जुहासिनीच्छन्दः (१३।२७९० ) - जती सजौ गो भवति मधुहासिनी ।' छ० शा ० १३
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy