Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 318
________________ अध्यायः] . छन्दःशास्त्रम् । तत्र विशेषमाहततोग्येकं जह्यात् ॥ ८॥ २७ ॥ पूर्वोक्त कर्मणि क्रियमाणे यदि सा सङ्ख्या गकारस्थानमापद्यते, तदा तां द्विगुणयित्वा ततः सङ्ख्यासमुदायादेकं त्यजेत् । ततः पूर्वोकं कर्म कुर्यात् । ततः परिपूर्णत्वात्तदृत्तसङ्ख्या सिद्ध्यति ॥ प्रस्ताराद्विना वृत्तसङ्ख्यापरिज्ञानार्थमाहद्विरद्वै ॥ ८ ॥२८॥ अपनीत इत्यध्याहारः। यदा जिज्ञासेत-षडक्षरे छन्दसि कति वृत्तानि भवन्ति ? नदा तां छन्दोऽक्षरसङ्ख्यां भूमौ स्थापयित्वा ततोऽर्धमपनयेत। तस्मिन्नपनीते द्वौ लभ्यते । ततस्तां द्विसङ्ख्यां भूमौ पृथक् प्रस्तारयेत । ततः शेषास्त्रयोऽक्षरसङ्ख्यायां भवन्ति ॥ तेषामर्धयितुमशक्यत्वात् किं कर्तव्यमित्याहरूपे शून्यम् ॥ ८ ॥ २९ ॥ वपमसङ्ख्यातो रूपमपनीय तस्मिन्नपनीते शून्यं लभ्यते। तत्र पूर्वलब्धाया । चाया अधस्तात् स्थापयेत् , ततो द्विसङ्ख्यावशिष्यते। ततोऽर्धेऽपनीते पुनदि । लभ्यते, तां शून्याधस्तात् स्थापयेत् । ततो रूपे शून्यं लभ्यते । तद् द्विसङ्ख्याया अबन्तात् स्थापयेत् ॥ ततः किं कर्तव्यमित्याहद्विः शून्ये ॥ ८ ॥ ३० ॥ शून्यस्थाने द्विरावृत्तिं कुर्यात् । तत्र निराकाराया आवृत्तेरसम्भवात् , प्रथमाविक्रमे कारणाभावादेकसङ्ख्या लभ्यते । तां शून्ये स्थापयित्वा द्विगुणयेत् । ततो द्वौं भवतः ।, नम्योपरिष्टादर्धस्थानं द्विसङ्ख्याकं तदपनीय तस्य स्थाने तं द्विसङ्ख्याकं स्थापयेत् ॥ अनन्तरमिदं कर्तव्यमित्याहतावदर्धे तद्गुणितम् ॥ ८॥३१॥ यदर्धस्थाने स्थितं सङ्ख्याजातं, तत्तावत् गुणितं कुर्यात् । एतदुक्कं भवति-खसङ्ख्ययेव गुणयितव्यमिति । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति । तेषामुपरिष्टाच्छून्यस्थानं तत्र तानारोपयेत् । अनन्तरं द्विःशून्य इति द्विगुणिता. अष्यै भवन्ति । तानप्यर्ध१. मात्रोद्दिष्टमुक्त जानकीशरणेन 'विलिख्य रूपे क्रमकाङमत्र गुरुव॑मई चरमे विलुम्पेत् । शिष्टाङ्कमेवं प्रवदेद्विधिज्ञो मात्रीयमुद्दिष्टमिदं जगाद ॥' इति । छ. . १७

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322