Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
८ अध्यायः] छन्दःशास्त्रम् ।
१९५ जिज्ञासिते । तत्संख्याजातं द्विगुणितं परस्य छन्दसो वृत्तानां संख्या भवति । तद्यथाचतुःषष्टिर्गायत्रीसमवृत्तानां संख्या द्विगुणीकृता सती परस्योष्णिहः समवृत्तसंख्या साष्टाविशं शतं भवति ॥
अतोऽनेकद्वित्रिलघुक्रियासिद्ध्यर्थ यावदभिमतं प्रथमप्रस्तारवन्मेरुप्रस्तारं दर्शयतिपरे पूर्णमिति ॥ ८॥ ३५॥
उपरिष्टादेकं चतुरस्रकोष्ठं लिखित्वा तस्याधस्तादुभयतोऽर्धनिष्क्रान्तं कोष्टकद्वयं लिखेत् । तस्याप्यधस्तात्रयं तस्याप्यधस्ताच्चतुष्टयं यावदभिमतं स्थानमिति मेरुप्रस्तारः ॥ तस्य प्रथमे कोष्ठे एकसंख्यां व्यवस्थाप्य लक्षणमिदं प्रवर्तयेत् । तत्र परे कोष्ठे यवृत्तसंख्याजातं तत् पूर्वकोष्टयोः पूर्ण निवेशयेत् । तत्रोभयोः कोष्ठकयोरेकैकमङ्कं दद्यात् , मध्ये कोठे तु परकोष्टद्वयाङ्कमेकीकृत्य पूर्ण निवेशयेदिति पूर्णशब्दार्थः । चतुर्थ्यां पङ्क्तावपि पर्यन्तकोष्टयोरेकैकमेव स्थापयेत् । मध्यमकोष्ठयोस्तु परकोष्ठद्वयाङ्कमेकीकृत्य पूर्ण त्रिसङ्ख्यारूपं स्थापयेत् । उत्तरत्राप्ययमेव न्यासः । तत्र द्विकोष्ठायां पङ्को एकाक्षरस्य विन्यासः। तत्रैकगुर्वेकलधुवृत्तं भवति ॥ तृतीयायां पतौ व्यक्षरस्य प्रस्तारः। तत्रैकं सर्वगुरु, द्वे. एकलघुनी, एक सर्वलम्विति कोष्टक्रमेणं वृत्तानि भवन्ति ॥ चतुर्थ्यां पङ्को त्र्यक्षरस्य प्रस्तारः । तत्रैक सर्वगुरु त्रीण्येकलघूनि त्रीणि द्विलघूनि एक सर्वलघु ॥ तथा पश्चमादिपत्रावपि सर्वगुवा दिसलध्वन्तमेकद्वयादिलघु द्रष्टव्यमिति ॥
१. सूत्रावृत्तिः शास्त्रसमाप्तिसूचनार्था । २. मात्रामेरुरप्युक्तो वाणीभूषणे
'द्वयं द्वयं समं कोष्टं कृत्वान्त्येष्वेकमर्पयेत् । एकद्वयेकत्येकचतुष्क्रमेण प्रथमेष्वपि ॥ शीर्षाङ्काप्तपराङ्काभ्यां शेषकोष्टान् प्रपूरयेत् ।
मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥' इति । अत्र वृत्तप्रत्ययकौमुद्यां विशेषः
'मात्रागलक्रिया क्वापि नोक्ता सापीह वर्ण्यते । कलासङ्ख्याकमेकाङ्कमौत्तराधर्यतो न्यसेत् ॥ तिर्यद्वितीयपतो चोर्ध्वस्थाकं संलिखेदुधः। . तृतीयादावूर्ध्वकोणयुग्माकं च युतं लिखेत् ॥ । योजनासम्भवे युक्तमङ्कमेव लिखेदधः। .. . । प्राग्युताकावथ त्यक्त्वा पुनर्युक्त्वा पुरो लिग्वेन ॥
युत्वा युत्वाधराङ्कान्तं लिखेद्धीमानधः स्थितैः । तिर्यगढद्वितीया?रेकगुर्वादयो मताः ॥

Page Navigation
1 ... 318 319 320 321 322