Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
१९४
काव्यमाला।
स्थाने निधाय तावगुणान् कुर्यात् । ततोऽष्टावश्याभिर्गुणिताश्चतुःषष्टिर्भवन्ति गायत्रीसमवृतानि । अनेनैव न्यायेनाष्टाविंशत्यधिकशतमुष्णिहः, षट्पञ्चाशदधिके द्वे शते अनुष्टभः, द्वादशोत्तराणि पञ्च शतानि बृहत्याः, चतुर्विशत्यधिकं सहस्रं पङ्क्तेः, अष्टचत्वारिंशदधिके द्वे सहस्र त्रिष्टुभः, षण्णवत्यधिकानि चत्वारि सहस्राणि जगत्याः । एवमतिच्छन्दसां कृतीनां च द्रष्टव्यम् ॥
द्विद्यूनं तदन्तानाम् ॥ ८॥३२॥ गायत्र्यादिवृत्तसङ्ख्याजातं द्विगुणीकृत्य द्वाभ्यामूनं कुर्यात् । तत्तदन्तानां परिमाणं भवति । यस्य छन्दसः सङ्ख्या द्विगुणिता, तत्पर्यन्तानां पूर्वेषामेकाक्षरप्रमृतीनां सङ्ख्या भवतीत्यर्थः॥"
परे पूर्णम् ॥ ८ ॥ ३४॥ - तदेतच्छन्दोवृत्तसङ्ख्याजातं द्विगुणिनं पूर्णमेव स्थापयितव्यम् , न द्वथूनम् । परे छन्दसि
१. इतः परम्एकोनेऽध्वा ॥८॥३३॥ इति सूत्रमधिकं पठ्यते वैदिकैः, अनुवादोऽप्यस्याग्निपुराणे दृश्यते (३३५।४ ) 'अध्वाङ्गुलमधोऽर्धतः । सङ्ख्यैव द्विगुणैकोना' इति । एतदभावे च षट्प्रत्ययपूर्तिरपि न भवति, अध्वप्रत्ययाभावात् । न चासावत्रोपेक्षित एवेति साम्प्रतम् , शास्त्रवैकल्यापत्तेः; 'षण्मात्रमुवाच पिङ्गलः सूत्रम् । "प्रलयहेतोः खशास्त्रादी ॥' इति परिभाषासाङ्गत्यापतेश्च । अतः सम्प्रदायशुद्धमावश्यकं चैतत्सूत्रम् । हलायुधेनाव्याख्यानं त्वनुपलब्धत्वादेवेति षष्ठप्रत्ययोऽपि' (पृ. १९६ पं० १) इत्यादितल्लेखादेव व्यकम् ।
अस्यार्थस्तुउक्तरीत्या द्विगुणीकृता वृत्तसङ्ख्या एकेन ऊना अध्वा प्रस्तारलेखनाधिकरणदेशो भवतीति । अत्र विशेषो रताकरे
'सङ्ख्यैव द्विगुणैकोनासद्भिरध्वा प्रकीर्तितः ।
वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥' इति । अयमर्थः-अडलिविस्तारा गुरुलघवो लेख्याः। अधोऽन्तरालदेशेऽप्यङ्गुलविस्तारदेशं सक्त्वा वृत्तप्रवारमेदा लेख्याः। तथा च यक्षरादौ पञ्चदशाद्यालोचता सष्टीभवतीति ।
अत्र न्यूनाधिकप्रमाणसम्भवेऽप्यनुगतस्य शास्त्रार्थत्वादलप्रमाणमुक्तम् । अन्तरदेशेऽहुलत्यागस्तूद्दिष्टानुसारात् । वस्तुतस्तु गुरुलधूनां यत्प्रमाणम्, तत्प्रमाणकान्तरालदेशसाग इतीह विवक्षितम् । तेन प्रकाराधिकरणदेशप्रमाणसङ्ख्यापि तत्प्रमाणगतैवेति ज्ञेयम् । इति सेतुः।

Page Navigation
1 ... 317 318 319 320 321 322