Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 316
________________ ८ अध्यायः] छन्दःशास्त्रम् । वसवस्त्रिकाः ॥ ८॥ २३ ॥ एवं पूर्वोके त्र्यक्षरप्रस्वारे अष्टौ त्रिका जायन्ते। ते च मकारादयः शास्त्रादौ कथिता एव । प्रदर्शनार्थ चैतत् ; तेन षोडश चतुष्का द्वात्रिंशत्पञ्चका भवन्ति । एवं चतुःषष्टिर्गायत्रीसमवृत्तानि सर्वगुरुलघ्वाचन्तानि भवन्ति । द्विगुणोत्तरमुष्णिगादीनाम् ; एकैकाक्षराधिक्यात् । विस्पष्टार्थमिदं सूत्रम् ; प्रस्तारादेव सङ्ख्यापरिच्छितेः ॥ प्रस्वारस्य क्रमे बीजं नोचुः प्राश्चोऽत्र यद्यपि। स्पष्टतायाखथाप्यस्मि वदामि सुधियां मुदे ॥ सर्पगुरुपादस्य मेदाकालायां द्वितीयपको प्रथमस्थान एवोपस्थितत्वात् गुरुनिरासपूर्व लघुप्रयोगेण सर्वगुरुपादो भिद्यत इति तस्यादौ कल्पनम् , (1. s.s)। ततस्तृतीयपतौ द्वितीय स्थाने गुरुनिरासपूर्व लघुप्रयोग इति द्वितीयो मेदः,-(s. .s)। अस्यैव शेषभूतश्चतुर्थपतिस्थस्तृतीयो मेद इति तस्य कल्पनम् , (I. I.s) ततः पञ्चमपङ्को तृतीयस्थाने तथैव लघुप्रयोगाच्चतुर्थस्य,-(s. s.)। अस्यैव च द्विगुर्वादेस्त्रयोऽन्ये भेदाःलघुगुर्वादिः-(1..1), गुरुलघ्वादिः (s.।।), लघुद्वयादिश्च-(i..।) इति । इत्थं सर्वगुरुणा प्रथमेन (s.s.s) सहितेषु मध्याया अष्टभेदेषु क्रमे बीजमुक्तम् । . एवं प्रतिष्ठादिप्रस्तारक्रमेऽप्युग्नेयम् ॥ . एकाक्षरादिषड्विंशत्यन्तजातिप्रस्तारपिण्डसङ्ख्योक्ता वृत्तमौक्तिके 'षड्विंशतिः, सप्तशतानि, चैव तथा सहस्राण्यपि सप्तपतिः । लक्षाणि दृग्वेदसुसम्मितानि, कोव्यस्तथा रामनिशाकरैः स्युः ॥' ___(१३,४२,१५,७,२६) इति वृत्तरत्नाकरसेतो। एवमर्धसमवृतेऽर्धप्रस्वारः, विषमवृत्ते च श्लोकप्रस्तार इति ज्ञेयम् । मात्रावृत्तप्रस्तारोऽपि ग्रन्थान्तरोको दर्शितः सेतुकृता 'तत्र प्रथमपतौ स्याद्गुरुपादस्तु पूर्ववत् । द्वितीयपडी प्रथमादधो लेख्यो लघुर्गुरोः ॥ यथोपरि तथा शेषमूनस्थाने लघु न्यसेत् । तृतीयादिषु पतिष्वप्येवमेव गुरोरधः ॥ लघु न्यस्यांवशिष्टं तु पूर्ववत् परिकीर्तितम् । न्यूने मात्रात्रयं देयं तस्मिन्नादौ गुरुद्वयोः ॥ . कलयोः स्यात्ततः पूर्व लघुर्देयो भवेत्ततः। . . चतुर्थपञ्चावप्येवं पञ्चम्यां तु गुरोरघः ॥ ....... लघुद्वयं लिखेत् पूर्व शिष्टं तूपरिवद्भवेत् । .. एवं सर्वत्र विज्ञेयः कलाप्रस्तार उत्तमः॥ .

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322