Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 315
________________ १९० काव्यमाला। इदानी प्रस्तारादीन् प्रत्ययानुपक्रमते' । तत्र गायत्र्यादिप्रस्तारसिद्ध्यर्थमेकाक्षरप्रस्तारपुर्वकं यक्षरप्रस्तारं सूत्रद्वयेनाहद्विको ग्लौ ॥ ८ ॥ २० ॥ उपरिष्टाद् गकारं लिखित्वाधस्ताल्लकारं विन्यसैदियेकाक्षरप्रस्तारः । तस्य द्विकन्वाद् द्वौ ग्लौ द्विको स्थापयेत् । द्वे आवृत्ती प्रमाणमनयोरिति द्विको। 'संख्याया अतिशदन्तायाः कन् (पाणि० ५।१।२२) इति कन्प्रत्ययः । ततश्च गकारं नतोऽधतालकार लिखित्व' विस्पटार्थमधस्तियग्रेखां दद्यात् । अधस्ताच्च पूर्ववद गकारलकारी स्थापयेत ॥ अत्र किं कर्तव्यमित्याहमिश्री च ॥ ८ । २१ ।।. अनेन द्वितीयाक्षरग्रस्तारं दर्शयति । चकारः पूर्ववस्तारसमुच्चयार्थः । द्विको ग्लो स्था.. यित्वा अनन्तरं द्वितीयस्थानेषु मिश्री ग्लो विन्यसेत् । गकारो, गकारेण संश्लिष्टो मित्र उच्यते, लकारश्च लकारेण। मिश्राविति गकारलकाराभ्यां प्रत्येकमभिसम्बध्यते। 'द्वन्द्वःपरो यः श्रूयत' इति न्यायात् । ततश्च प्रथमायामावृत्तो गकारी मिश्री स्थापयेत् । द्वितीयायां लकाराविति । ततो मध्ये लेखामपनयेत् । एवं चतुःप्रकारो यक्षरप्रस्तारो भवति नया-गो गो ग्लो लाविति ॥ इदानीं यक्षरप्रस्तारपूर्वकमेकैकाक्षरवृद्ध्या त्र्यक्षरादिप्रस्तारं दर्शयितुमाहपृथग्ला मिश्राः ॥ ८ ॥ २२॥ . . . यक्षरप्रस्तारस्य पूर्वन्यायेन द्विकं लेखाविभक्तं स्थापयित्वा तृतीयाक्षरस्थानेषु प्रथमावृत्तो गकारा मिश्रा दातव्याः । द्वितीयावृत्तौ लकारा मिश्राम्ततो मध्यात् लेखामपनयेत्। एवं त्रिकः प्रस्तारः सिद्ध्यति । पृथगिति विजातीयासंसर्गमाह । तेन प्रथमायामावृत्ती न लकारप्रवेशः। द्वितीयायां न गकारस्य । एवं त्रिकप्रस्तारं द्विः स्थापयित्वा पृथग ग्ल मिश्रा दातव्या इति चतुरक्षरः प्रस्तारः । एवं तत्पूर्वकः पञ्चाक्षरः प्रस्तारः । तथैव - वकः षडक्षरो गायत्रीसमवृत्तप्रस्तारः । एवमुष्णिगादीनामप्येकै काक्षरवृद्ध्या. अयमंत्र न्यासः । तत्रेदं सूत्रं त्र्यक्षरात् प्रभृति पुनः पुनरावर्तनीयं यावदभिमतः प्रस्तारः . १. छन्दसां भेदादिप्रत्यायकत्वात्प्रत्ययाः।.ते च दार्शिताः केदारेण–'प्रस्तारो नामुद्दिष्टमेक यादिलगक्रिया । सङ्ख्यानमघयोगश्च षडेते प्रत्ययाः स्मृताः ॥' इति । १. प्रकारान्तरमुकं रत्नाकरे 'पादे सर्वगुरावाद्यालघु न्यस्य गुरोरधः। .. यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् । प्रसारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥'

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322