Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
७ अध्यायः
छन्दःशास्त्रम् । प्रथमश्चण्डवृष्टिप्रयातः' ॥ ७ ॥ ३४ ॥ यः सप्तविंशत्यक्षरपादः प्रथमो दण्डकः स चण्डवृष्टिप्रयातो नाम । पूर्वमेवोदाहरणम् । अन्यत्र रातमाण्डव्याभ्याम् ॥ ७ ॥ ३५ ॥ रातमाण्डव्याभ्यां ऋषिभ्यामन्यत्रास्याभिधानमेतदेव, ताभ्यां पुनरन्यैव संज्ञा कृतास्य वृत्तस्य ॥ रातमाण्डव्यग्रहणं पूजाम् ।।
शेषः प्रचित इति ॥७॥ ३६॥
१. प्रपात इति क्वचित्पाठः। २. अत्र रातमाण्डव्योक्तसंज्ञान्तरसत्वे 'स्कन्धोपीवी कोष्टकेः' (३।२९) 'सिंहोन्नता काश् पस्य' (७९) इत्यादिवत् तन्निर्देशस्यैव न्याय्यत्वात् , ग्रन्थान्तरेष्वप्यस्य संज्ञान्तरादर्शनात् , प्रथमपदसूचितानामन्येषां संज्ञानुक्तेन्यूनत्वापादकत्वात् , एतदीयानुवादेऽग्निपुराणे (३३४।३०)-'रेफवृद्ध्याार्णवाः स्युालजीमूतमुख्यकाः।' इति तत्संज्ञोकेरनुपपद्यमानत्वाच सूत्रमिदमन्यथा व्याख्येयम्अन्यत्र द्वितीयादिषु दण्डकेषु संज्ञा रातमाण्डव्याभ्यामुक्ताः। ता एव स्वस्यापि सम्मता इति न पुनरुच्यन्त इति भावः। यद्वा-उत्तरसूत्रयोगेन व्याख्येयम्-रातमाण्डव्याभ्यामन्यत्र शेषोऽवशिष्टो दण्डकप्रस्तारः प्रचितसंज्ञः । ताभ्यां पुनः प्रत्येकं पृथक् संज्ञा अर्णार्णवादयः कृताः प्रसिद्धा एवेति ॥
तथा च रत्नाकरे (३।१२)–'प्रतिचरणविवृद्धरेफाः स्युरार्णव-व्याल-जीमूतलीलाकरो-दाम-शङ्खादयः।' इति । आदिपदात् पञ्चदशादिभी रगणैर्घटितपादाः क्रमेण'आराम-सङ्ग्राम-सुराम-वैकुण्ठ-सार-कासार-विसार-संहार-नीहार-मन्दार-केदारआसार-सत्कार-संस्कार-माकन्द-गोविन्द-सानन्द-सन्दोह-आनन्द' इत्येते ग्राह्या इति. तर्कवाचस्पतिः। सिंहसमुद्रभुजङ्गाद्या इति रत्नाकरपश्चिका।
‘एवमेकैकरगणवर्धनात्सकलानिषु। .. ___एकन्यूनसहस्राणपर्यन्तं दण्डका मताः ॥'-इति श्रीकृष्णः । ३. शेष इति । अनुक्तनाम्नां दण्डकानां प्रचित इत्येव संज्ञा इति भास्करः। शेषो रगणेतरयगणादिघटितः इत्यन्ये। तथा च रत्नाकरे (३।१३)-'प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ।' इति । 'यैरित्यन्येषामपि गणानामुपलक्षणम् , कविप्रयोगात् तघांटतानामपि दण्डकानामिष्टत्वात् ।' इति सेतुः। पश्चि. काकृत्तु-'नद्वयात्परतस्तकारेणापि क्वचिद्दण्डका दृश्यन्ते' इति सूत्रमेव पपाठ ।
'नगणद्वितयादेवमेकैकगणवर्धनात् । कुमुदाब्जतरङ्गादिनाम्नां भेदाश्च पूर्ववत् ॥'-इति कृष्णः।

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322