Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 276
________________ ७ अध्यायः ] छन्दःशास्त्रम् । जगणः जगणः गु० गु० तगणः मगणः Ada Ada AAAA S•S•TS.TH⋅S.I.S.TS $ नीलोत्प- लघुति - मलिम्लु – चलोच - ना च । तगण भगणः- नगणः जगणः गु० गु० Madh shada Ala ऽ •ऽ •15.1.1- 1.5.1-1-501-S-s सिंहोन - तत्रिक-तटी कुटिलाल-का-न्ता तगणः मगणः जगणः नगणः गु० गु० Mala S-5-1-501-11.5.14.5.15--s कान्ता व-सन्तति-लका नृपवल-भा-सौ ॥ १५१ पादान्ते यतिः' । सिंहोता काश्यपस्य ॥ ७ ॥ ९ ॥ इयमेव वसन्ततिलका काश्यपस्याचार्यस्य मतेन 'सिंहोता' नाम भवति । पूर्वमेबोदाहरणम् । उद्धर्षिणी सैतवस्य ॥ ७ ॥ १० ॥ इयमेव वसन्ततिलका सैतवस्याचार्यस्य मते 'उद्धर्षिणी' नाम । पूर्वमेवोदाहरणम् । ( अतिशैकर्याम् ) १. ‘विरतिः सप्तसप्ताक्षरैर्मता ।' इति कृष्णः । २. 'सिंहोद्धता' इति मं• म० । ३. 'मधुमाधवी' इति गोमानसः, 'चेतोहिता' इति रामकीर्तिः । मं० म० । ४. अतिशक्करीछन्दः पादघटकीभूतानां पञ्चदशसंख्याकानां वर्णानां प्रस्तारे कृते सप्तशताष्टषष्ट्यधिकद्वात्रिंशत्सहस्रभेदा (३२७६८) जायन्ते । तेष्वत्र द्वावेव भेदौ निर्दिष्यै । अतोऽन्येभ्यो प्रन्येभ्य आकृष्योपलभ्यमाना भेदा निर्दिश्यन्ते । यथालीलाखेलच्छन्दः (१५।१ ) – 'एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ।' अस्यैव 'कामक्रीडा' इति 'सारङ्गिका' इति च नामान्तरे । चित्राच्छन्दः (१५/४६०८ ) - 'चित्रानामच्छन्दचित्रं चेत्रयो मा यकारौ ।' चन्द्रलेखाच्छन्दः (१५/४६२५ ) - 'म्रो यो यान्तो भवेतां सप्ताष्टभिचन्द्रलेखा ।' 'चन्द्रसेना' इति नामान्तरं कृष्णीये । चन्द्रकान्ताच्छन्दः (१५/५६५१ ) - 'चन्द्रकान्ता मता मः स्यो विरतिः खराष्टौ ।' ऋषभच्छन्दः (१५।५८६८ ) - 'ऋषभाख्यमेतदुदितं सजसाः सयौ चेन् ।' एलाच्छन्दः (१५/८१७२ ) - 'सजना नयौ शरदशयतिरियमेला ।' 'रेखा' इत्यस्या नामान्तरम् 1 -

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322