Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 464
________________ पञ्जिका (सर्ग ४) ४३१ नीचः - ह्रस्वः स्यात् ? कुतः ? इतराद्रिमहोन्नतत्त्वतः - अन्य महीधरमहोच्छ्रय त्वात् । " ४४. विजित० । हे राजन् ! केनापि महीभुजा, तु-पुनः, अयं बाहुबलिः, न हि विजितः - न पराजितः कुतः ? तव बांधवत्वतः - भवद्भ्रातृत्वात्, किलेति श्रयते, सूर्यदत्तया - रविविश्राणितया कलया चन्द्रमा, इह-अस्मिन् लोके, अधिक दीप्तिः- अभ्यधिकधामा भवति । ४५. अनुज० । हे प्रभो ! यदि तव बांधवः, अनुजः - लघीयान् बली - बलवान्, विद्यते । कः कस्येव ? सीमंतकभृत् - विष्णुः, हरेः - इन्द्रस्येव । तर्हि तदा, असौ - बाहुबलिः, भवानिव चतुराशांतजयी - चतुर्दिगंतजेता, किं न भवतिकिं न समर्थो भवति ? ४८. ४६. ं प्रथमं० । हे राजन् ! अस्य - बाहुबलेः, बलवानिति सर्वथा प्रथा - विख्यातिरभवद्-बभूव । ततः–तस्माद्धेतोः, अयं बाहुबलिः स्मयवान्-अभिमानवान् । प्रथमं तावतु भवदत्युपेक्षणात् तव अवज्ञानात् पुनर्व' षकेतोः - वृषभस्वामिनः, तनयत्वतः-- पुत्रत्वात् । ४७. अयमी० । हे राजन् ! द्वयोराह्वयोः, सत्-- सुत्यं, अन्तरं महदेव - गरीय एवास्ति । कि ं विशिष्टयोर्द्वयोः ? बलरिक्तबलातिरिक्तयोः - विक्रमहीनविक्रमाधिकयोः तत् किं अन्तरम् ? अयं बाहुबलिः एकमंडले - एकदेशे, ईश्वरः - नायकोस्ति । त्वं भरते विभुरसि । कथंभूतस्त्वं ? अस्तशात्रवः - क्षिप्तप्रत्यनीकः । इति त्रिभंगोन्वयः । ५०. अथवा० । हे राजन् ! अथवा आर्ष भतेजसां भरे - युगादिदेव संतान महसामतिशये, बलवत्ता - विक्रमाधिकत्वं किमु चित्रकारिणी - किमाश्चर्यविधायिनी विद्यते ? जलधेः-समुद्रस्य, लहरीचयोच्चताविषये - कल्लोलसमूहोत्तुंगतायां, कोपि महान् विस्मयः स्यात् ? ४६. विनिवे० । हे राजन् ! ततः - तदनन्तरं भवान् इह - भ्रातृदेशादानविषये, सौभ्रात्रं-सुष्ठुबन्धुत्वं न हि अलुलुपत्-न लोपयांचकार । नाभिसूः विभुःयुगादिदेवः, त्वां बलिनं - बलवंतं, परिभाव्य - ज्ञात्वां निजे पदे विनिवेश्यस्थापयित्वा, व्रतं - दीक्षां, आददिवान्- गृहीतवान् । 1 to । हे राजन् ! प्रणयात् - स्नेहात् त्वं निजबंधुं - स्वभ्रातरं, अजुहवस्तरांआकारयामाथि । स बाहुबलिः, स्वयं - आत्मना, नागतः - नागमत् । च-पुनः,

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550