Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४८६
पञ्जिका (सर्ग )
शतशः - बहुशतसंख्यान्,
३०. अथैक० । अथ - अनन्तरं, सेना मार्गान् - पथश्चकार—कृतवती । किं विशिष्टा सेना ? एकदिक्संमुखसंचरिष्णु:एकाशाभिमुखसंचरणशीला, केव ? स्वर्वाहिनी - गंगा इव शतशो मार्गान् करोति । किं विशिष्टा ? अन्तरुपेतशैलविभेदिनी - अन्तरालायातपर्वतघातिनी । पुनः किं विशिष्टा ? भारतकामचारा - भरतक्षेत्रे कामं - अत्यर्थं चारः - संचारो यस्याः, सेनापक्षे - चक्रवर्तीच्छाचारिणी । शैलविभेदिनी - इत्यत्र भूभृत्विभेदिनीतिपाठोऽवसातव्यः । भूभृन्महीधरे पृथ्वीपालावित्यनेकार्थसंग्रहे ।
भटैः - वीरैः दिगन्ता
1
३१. विश्वंभ । तदीयः - भरतसंबंधिभिः, व्यानशिरेव्याप्यंत । किं विशिष्टैः भटैः ? धरित्रीं भुवनं नभः- आकाशं, मातुं - प्रमाणीकर्त्ती, प्रवृत्तैः - प्रसृतैरिव । पुनः किं विशिष्टैः ? विश्वंभराव्योमचरैःभूचरखेचरैः । पुनः किं विशिष्ट : ? स्वकरापितास्त्र :- स्वपाणिन्यस्तशस्त्रः । कथं ? समंततः - सर्वतः ।
३२. अस्योद्य० ।
अस्य- भरतस्य,
ध्वजिन्या :- सेनायाः, उद्यदातोद्यरवैःउच्छल वाद्यनिर्घोषैः, नाकलोकात् - सुरालयात्, स्वाहाभुजां संचयः -सदां समूहः, 'दूराद् आहूयत– आकार्यत एव । किं कृत्वा ? इत्युदीर्य - कथयित्वा । इतीति किं ? हे स्वाहाभुजां संचय ! भवदालयान्तः-स्वर्गमध्ये किं कौतुकमस्ति ?.
३३. महोष्ट्र० । ध्वजिन्यां - सेन यां, स कोपि कोलाहलोऽभवत् । येन - कोलाहलेन अटवीश्वापदजातियथैः गिरीणां गुहाः -कंदरा, भयादलीयन्त - आश्रीयन्त । किं' विशिष्टायां ध्वजिन्यां ? महोष्ट्रवामीशतसंकुलायां - महाकरभवे सरस्त्रीशतसंकीर्णायां ।
३४. गन्धेभ० । अस्य - भरतस्य चम्वा - सेनया, तद् वनं आबभासे -शुशुभे । कि विशिष्टं वनं ? गन्धेभसिंदूरभरातिरक्तपथिद्रुमं - गंधद्विपसिंदूरातिशयाभ्यधिकाः पथिद्रुमाः - मार्गवृक्षाः यत्र तत् । उत्प्रेक्षते - चरिष्णु सन्ध्याभ्रं - चरणशीलसायंतनमेघं क्षपास्यं - रात्रिमुखमिव । कया ? धूलीनवमेघपंक्त्या - सैन्योत्थर - जोनववारिदया |
३५. दूरंग० । अथ - अनंतरं, सैनिकानां साकेतसौधाग्रशिरोप्यदृश्यं बभूवजायतेस्म । कथं भूतानां सैनिकानां ? दूरंगतानां । किमिव ? स्मरातुराणां कामव्याप्तानां चैतन्यं अतिशुद्ध - अतिनिर्मलं, अदृश्यं भवति । किं विशिष्टानां स्मरातुराणां ? असमाहितानां ध्यानादिसमाधिवर्जितानां ।
यथा
Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550