Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 529
________________ ४६६ भरतबाहुबलिमहाकाव्यम् निशम्य-श्रुत्वा, किं कर्तुं ? तं आराम-काननं, द्रष्टुं-विलोकयितुं, किं विशिष्टं . तं? प्रासादलक्ष्मीकमनीयताढ्यं-चैत्यशोभाभिरामतापूर्ण । ७७. वनं स० । नृपतिः-भरतः, परभुवं-शत्रुसीमावनिं, प्रतस्थे-चलितवान् । कि कर्तुं ? बलैः-कटकैः, सह-सार्धं, सप्रासादं वनं-सचैत्यं काननं, उपगंतु-उपतुं । किं विशिष्टो नरपतिः ? कृतोद्योग:-संविहितोद्योगः । पुनः किं विशिष्टः ? सागःक्षितिपतिमनःशल्यसदृशः-सापराधभूपालहृदयशल्यतुल्यः । पुनः किं विशिष्ट: ? सैन्येन्द्राग्रसरपरिनुन्नः-सैन्येन्द्राग्रगामिप्रेरितः, · सुधी:-विद्वान्, ' तादृक्कार्ये-तद्विधेऽर्थे, न विमृशति-न विचारयति । किं विशिष्ट: सुधी: ? पुण्योदयरुचि:-धर्माभ्युदयाभिलाषी। इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मेज्योध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका। . . नैपुण्यव्यवसायिपुण्यकुशलस्यास्यारविंदोद्गता, या तस्यामिति संबभूव नवमः सर्गोऽरिसीमांगमः । इति श्रीभरतबाहुबलिमहाकाव्ये पंजिकायां बाहुबलिदेशसीमाप्रयाणो नाम नवमः सर्गः । ---- दशमः सर्गः१. पताकि० । सा श्रीभरतेश्वरस्य पताकिनी-सेना, तक्षशिलाधिपस्य-बाहबले.. सीमांतरमाससाद-प्राप। किं कुर्वाणा ? शंकमाना, मुहुः-असकृत् । केव ? नवोढेव । यथा नवोढा वधूः विलासगेहं-वासगृहं, आसादयति । २. तत्कान। तदीयैः सैन्यः-भरतसंबंधिकटकैः, तत्काननान्ताः-तस्य वनस्य प्रदेशाः, अगम्यंत-प्राप्यंत । किं विशिष्टाः काननान्ताः ? सविभ्रमांकाः--वीनांपक्षिणां, भ्रमः-भ्रान्तिः, तेन सह वर्तमानांकः-उत्संगः स्थानं वा येषां, ते। क: के इव ? कामिनीनां विलासैः प्रतीका:-अवयवाः, यथा गम्यन्ते । किं विशिष्टाः प्रतीकाः ? तारुण्यलावण्यजुषः-यौवनलवणिमभाजः । कथं ? शनै: मन्दं मन्दं । प्रतिपक्षे-सविलसभूषा वा सशोभालक्ष्माणः । ३. रजस्व० । वाहै:-अश्वः, भूमि परिहाय-त्यक्त्वा, नभ:- गगनं, इतीवललंबे शिश्रिये । किं विशिष्टै: वाहैः ? पवनातिपातैः-वायोरतिगामिभिः । इतीति किं ? एताः काननवल्यः-वनलताः, एषां-सैनिकानां, अदृश्या:-अनालोकनीया मा

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550