________________
४६६
भरतबाहुबलिमहाकाव्यम् निशम्य-श्रुत्वा, किं कर्तुं ? तं आराम-काननं, द्रष्टुं-विलोकयितुं, किं विशिष्टं . तं? प्रासादलक्ष्मीकमनीयताढ्यं-चैत्यशोभाभिरामतापूर्ण ।
७७. वनं स० । नृपतिः-भरतः, परभुवं-शत्रुसीमावनिं, प्रतस्थे-चलितवान् । कि
कर्तुं ? बलैः-कटकैः, सह-सार्धं, सप्रासादं वनं-सचैत्यं काननं, उपगंतु-उपतुं । किं विशिष्टो नरपतिः ? कृतोद्योग:-संविहितोद्योगः । पुनः किं विशिष्टः ? सागःक्षितिपतिमनःशल्यसदृशः-सापराधभूपालहृदयशल्यतुल्यः । पुनः किं विशिष्ट: ? सैन्येन्द्राग्रसरपरिनुन्नः-सैन्येन्द्राग्रगामिप्रेरितः, · सुधी:-विद्वान्, ' तादृक्कार्ये-तद्विधेऽर्थे, न विमृशति-न विचारयति । किं विशिष्ट: सुधी: ? पुण्योदयरुचि:-धर्माभ्युदयाभिलाषी।
इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मेज्योध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका। . . नैपुण्यव्यवसायिपुण्यकुशलस्यास्यारविंदोद्गता,
या तस्यामिति संबभूव नवमः सर्गोऽरिसीमांगमः । इति श्रीभरतबाहुबलिमहाकाव्ये पंजिकायां बाहुबलिदेशसीमाप्रयाणो नाम नवमः सर्गः ।
----
दशमः सर्गः१. पताकि० । सा श्रीभरतेश्वरस्य पताकिनी-सेना, तक्षशिलाधिपस्य-बाहबले..
सीमांतरमाससाद-प्राप। किं कुर्वाणा ? शंकमाना, मुहुः-असकृत् । केव ?
नवोढेव । यथा नवोढा वधूः विलासगेहं-वासगृहं, आसादयति । २. तत्कान। तदीयैः सैन्यः-भरतसंबंधिकटकैः, तत्काननान्ताः-तस्य वनस्य
प्रदेशाः, अगम्यंत-प्राप्यंत । किं विशिष्टाः काननान्ताः ? सविभ्रमांकाः--वीनांपक्षिणां, भ्रमः-भ्रान्तिः, तेन सह वर्तमानांकः-उत्संगः स्थानं वा येषां, ते। क: के इव ? कामिनीनां विलासैः प्रतीका:-अवयवाः, यथा गम्यन्ते । किं विशिष्टाः प्रतीकाः ? तारुण्यलावण्यजुषः-यौवनलवणिमभाजः । कथं ? शनै:
मन्दं मन्दं । प्रतिपक्षे-सविलसभूषा वा सशोभालक्ष्माणः । ३. रजस्व० । वाहै:-अश्वः, भूमि परिहाय-त्यक्त्वा, नभ:- गगनं, इतीवललंबे
शिश्रिये । किं विशिष्टै: वाहैः ? पवनातिपातैः-वायोरतिगामिभिः । इतीति किं ? एताः काननवल्यः-वनलताः, एषां-सैनिकानां, अदृश्या:-अनालोकनीया मा