________________
पञ्जिका ( सर्ग १०)
४६७
भवन्तु । किं विशिष्टाः काननवल्ल्यः ? रजस्वलाः - रेणुमत्यः, रजस्वलाःपुष्पवत्यः किलेति सत्ये अदर्शना भवन्ति ।
४. कदय० । तदानीं - तस्मिन् समये, सा वनराजिः वयसां विरावैः - विहंगमानां विसवैः, गाढं यथा स्यात् तथा चुक्रोश - रुरोद । कथं भूता सा वनराजि: ? तदीयैः - तस्य भरतस्य संबंधिभिः, बलैः - कटकैः, उच्चैः अत्यर्थं, कदर्थितापीडिता । पुनः किं विशिष्टा सा ? हठात्तशाखाकबरी - बलाद् गृहीतदुशाखावेणी । केव ? नवोढकन्येव यथा नववधूः, तदीयैः - तस्य नायकस्य संबंधिभिः, बलैः - ओजोभिः, कदर्थिता सति गाढं क्रोशति ।
५. चमूच० । सा वनराजलक्ष्मीः केतककंटकः, युवः - तरुणान् तुतोद - व्यथतेस्म । किं विशिष्टान् यूनः ? चमूचरान् - सैन्यवर्त्तिनः । किं कुर्वतः ? किलेति निश्चयेन, विमर्दात्-संघट्टात्, उपरिष्टात् - उपरितः पततः । किं विशिष्टैः केतक कंटकैः ? अत्यन्तकठोरधारैः - अत्यर्थ कठिनाग्रभागैः । कैरिव ? नखैरिव ।
६. फुल्लल्ल० । केचिद् - वीराः, फुल्लल्लतामण्डपमध्यमीये - व्यकचदुवल्लीमंडपांतरे, निषेदुः - निषीदतिस्म । किं विशिष्टाः सैनिकाः ? महीरुहस्कंधनिबद्धवाहाः - द्रुमस्कंध नियंत्रिताश्वाः । किं विशिष्टे फुल्ल० ? निलयाभिरामे - वेश्ममनोज्ञे । के कस्मिन्निव ? सुराः स्वर्गवनांतराले - नंदनवनाभ्यन्तरे यथा निषीदति ।
७ श्रान्ताः प्र० । केचिन् महाभुजः- दोष्मंतः सुखेन संविविशुः - निद्रां चक्रुः । केषु ? प्रसूतास्तरणे- पुष्पश्यतीयेषु किं विशिष्टाः महीभुजः ? श्रान्ताःकिंचित् क्लान्ताः । के कस्मिन्निव ? नागाः - गजाः सरस्याः - तटाकस्य, नीरदेशेतटप्रदेशे इव यथा संविशति । किं विशिष्टे तीरदेशे ? महीरुहच्छायनिवारितोष्णे - तरुच्छायनिषिद्धतापे, समासे "बाहुल्यमिति वचनात् ।
केचित् । अथ - अनन्तरं वासरयौवने - मध्यान्हे, केचिद् वीराः तरुच्छायंद्रुमतलं, उपेत्य - आगत्य, विशश्रमुः - विश्राममापुः किं विशिष्टाः वीराः ? मरुद्भिः- वायुभिः, तनूकृतस्वेदलवाः - अल्पीकृतपरिस्वेदाः । कथं मरुद्भिः ? लतावलीनर्तनसूत्रधारैः - वल्लीव्रजनाटनपाठकैः ।
६. मन्दाकि० । केचिद् - वीराः,
मंदाकिनीतीरलतालयेषु - गंगाजलासन्नवल्ली
मंडपेषु, निलीनाः - अध्युषिताः । किं क्रियमाणाः ? परितप्यमानाः - आतपक्लिश्यमानाः । पुनः किं चकृवांसो ? विहारं - प्रासादं परितः सर्वतः, पटालयान्वस्त्रालयान् वितत्य - विस्तीर्य, केऽपि वीरा निषेदिवांसः - तस्थिवांसः ।