Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 523
________________ भरतबाहुबलिमहाकाव्यम् ३६. दन्ताब० । जनैः-प्रजाभिः, अस्य-भरतस्य, प्रयाणे-प्रयाणसमये, सेना जंगमकोशला-चलायोध्या, अमानि-मेने। कथंभूता? दंताबलः-हस्तिभिः, केलिनगोपपन्ना-क्रीडाशैलसहिता। पुन: किं विशिष्टा ? बृहदुभिः-महभिः, रथैः हर्योपपन्ना-गृहसंयुक्ता । पुनः किं विशिष्टा ? स्फुरद्ध्वजा-विराजमानकेतना। ३७. तुरंग । तुरंगमैः-अश्वैः, खुराप्रैः क्षुण्णं-संपेषितं, रजः-पांशु यावदन्तं आकाशं, उपैति-आगच्छति । किं विशिष्टैः तुरंगमैः ? अग्रसरैः-पुरश्चारिभिः, : पृष्ठचरैः गजैः मदांभोभरैः-दानवारिप्रकर्षैः कृत्वा रजस्तावद् अधोरक्षिन्यग् अपात्यत । क: कैरिव ? भवी-भव्यः, पंकैः-पातकैरिव । भविपक्षे अनन्तं मोक्षं । मदाः जात्यादयः । ३८. पुरस्स० । तुरंगिभिः-सादिभिः, पुरस्सरै:-अग्रस रैः, इति जनानां. पच्छतां प्रश्नविधायिनां, ऊचे-बभाषे । इतीति किं ? भो तुरंगिणः ! बलं-कटकं पृष्ठे वैत्यागच्छति । पृष्टचरैरपीदमेव जनानामूचे । जनानां पुरो-अग्रे, बहुसैन्यमस्ति वा प्राक्-पूर्वतो बहुसैन्यमस्तीति संनिबोधः-ज्ञानं नो बभूव । . इति षड्भगोन्वयः । ३६. कण्डय० । करीन्द्र :-गजराजैः, पथिभूरुहाणां-मार्गवृक्षाणां, त्वक् छल्ली उन्ममंथे-उदच्छेदि । किं कुर्वाणः ? करटं कंडूयमानैः-कंडूयां विदधानः । कैः केव ? चारुदशां-स्त्रीणां, विलासै :-विभ्रमैः धर्मस्थितिः-चारित्रसीमा यथा उन्मथ्यते । किं विशिष्टः ? अधिकप्रौढितया-अधिकप्रपंचतया, प्रपन्नः संयुक्तैः । ४०. विद्याधरैः । विद्याधरैः व्योमपथः-आकाशमार्गः, जगाहे-विलोडयांचक्र, ततः-तदनन्तरं, निधानः वडवामुखं-पातालं जगाहे, भूचारिभिः-भूचरैः, भूमितलं जगाहे । सा चमूरेवं गंगेव त्रिमार्या-मार्गत्रये, बभूव-अजायत । प्रवति । अयननिम्नगापि-मार्गनद्यपि, तस्य-भरतस्य, बलं-कटकं, तस्य कामचारैः-यथेष्टसंचरणैः, सद्य:-तत्कालं, नवोढेव-नवपरिणितवधूरिव, विषीदतिस्म-विषादमाप्नोतिस्म । किं विशिष्टा अयननिम्नगा? रसस्यपानीयस्य, ऊनकत्वं-अल्पीयस्त्वं, तेन पंकैककालुष्यभर:-कर्दमैकमालिन्यातिशयः, तेनातिदीना-अतिकृशा। नवोढापक्षे-रसस्य शृंगाररस्य । तबलकामचारै:तस्य भर्तुः बलस्य-वीर्यस्य अत्यर्थबंधैः चारोबन्धावसर्पयोरित्यनेकार्थसंग्रहे । किं विशिष्टः तबलकामचारैः ? प्रवत्तितैः-प्रसृतः । ४२. नाव्या० । अस्य-भरतस्य, बलैः-सैन्यः कृत्वा नाव्या-नौतरणयोग्या, नदी

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550