________________
भरतबाहुबलिमहाकाव्यम् ३६. दन्ताब० । जनैः-प्रजाभिः, अस्य-भरतस्य, प्रयाणे-प्रयाणसमये, सेना
जंगमकोशला-चलायोध्या, अमानि-मेने। कथंभूता? दंताबलः-हस्तिभिः, केलिनगोपपन्ना-क्रीडाशैलसहिता। पुन: किं विशिष्टा ? बृहदुभिः-महभिः, रथैः हर्योपपन्ना-गृहसंयुक्ता । पुनः किं विशिष्टा ? स्फुरद्ध्वजा-विराजमानकेतना।
३७. तुरंग । तुरंगमैः-अश्वैः, खुराप्रैः क्षुण्णं-संपेषितं, रजः-पांशु यावदन्तं
आकाशं, उपैति-आगच्छति । किं विशिष्टैः तुरंगमैः ? अग्रसरैः-पुरश्चारिभिः, : पृष्ठचरैः गजैः मदांभोभरैः-दानवारिप्रकर्षैः कृत्वा रजस्तावद् अधोरक्षिन्यग् अपात्यत । क: कैरिव ? भवी-भव्यः, पंकैः-पातकैरिव । भविपक्षे
अनन्तं मोक्षं । मदाः जात्यादयः । ३८. पुरस्स० । तुरंगिभिः-सादिभिः, पुरस्सरै:-अग्रस रैः, इति जनानां. पच्छतां
प्रश्नविधायिनां, ऊचे-बभाषे । इतीति किं ? भो तुरंगिणः ! बलं-कटकं पृष्ठे वैत्यागच्छति । पृष्टचरैरपीदमेव जनानामूचे । जनानां पुरो-अग्रे, बहुसैन्यमस्ति वा प्राक्-पूर्वतो बहुसैन्यमस्तीति संनिबोधः-ज्ञानं नो बभूव । .
इति षड्भगोन्वयः । ३६. कण्डय० । करीन्द्र :-गजराजैः, पथिभूरुहाणां-मार्गवृक्षाणां, त्वक् छल्ली
उन्ममंथे-उदच्छेदि । किं कुर्वाणः ? करटं कंडूयमानैः-कंडूयां विदधानः । कैः केव ? चारुदशां-स्त्रीणां, विलासै :-विभ्रमैः धर्मस्थितिः-चारित्रसीमा यथा उन्मथ्यते । किं विशिष्टः ? अधिकप्रौढितया-अधिकप्रपंचतया, प्रपन्नः
संयुक्तैः । ४०. विद्याधरैः । विद्याधरैः व्योमपथः-आकाशमार्गः, जगाहे-विलोडयांचक्र,
ततः-तदनन्तरं, निधानः वडवामुखं-पातालं जगाहे, भूचारिभिः-भूचरैः, भूमितलं जगाहे । सा चमूरेवं गंगेव त्रिमार्या-मार्गत्रये, बभूव-अजायत । प्रवति । अयननिम्नगापि-मार्गनद्यपि, तस्य-भरतस्य, बलं-कटकं, तस्य कामचारैः-यथेष्टसंचरणैः, सद्य:-तत्कालं, नवोढेव-नवपरिणितवधूरिव, विषीदतिस्म-विषादमाप्नोतिस्म । किं विशिष्टा अयननिम्नगा? रसस्यपानीयस्य, ऊनकत्वं-अल्पीयस्त्वं, तेन पंकैककालुष्यभर:-कर्दमैकमालिन्यातिशयः, तेनातिदीना-अतिकृशा। नवोढापक्षे-रसस्य शृंगाररस्य । तबलकामचारै:तस्य भर्तुः बलस्य-वीर्यस्य अत्यर्थबंधैः चारोबन्धावसर्पयोरित्यनेकार्थसंग्रहे ।
किं विशिष्टः तबलकामचारैः ? प्रवत्तितैः-प्रसृतः । ४२. नाव्या० । अस्य-भरतस्य, बलैः-सैन्यः कृत्वा नाव्या-नौतरणयोग्या, नदी