Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 524
________________ पञ्जिका (सर्गह) सुप्रतरा बभूव । गहनं-तरुसंकीर्णं वनं, प्रकाश-प्रकटं, आसीत् । सलिलाशयाः-जलस्थानानि स्थलान्यभूवन् । किं विशिष्टस्य अस्य ? जयोद्यतस्य-वैरिविजयोद्यमवतः । क्रमाद्-अनुक्रमात् । ४३. सुषेण । सुषेणसैन्याधिपतिः-सुषेणनामा सेनानी राजानं समेत्येदं जगाद । हे राजन् ! स्वसैन्यं ललाटंतपसप्तसप्तेः-मध्यान्हीयातभानोः, तापात् विषीदति विषादं कलयति । क इव ? अंडजानां-पक्षिणां, व्रात:-समूह इव । ४४. बन्धूक० । हे राजन् ! त्वं बन्धूकपुष्पाणि-माध्याह्निकतरोः कुसुमानि, विका सवंती--विकस्वराणि, वीक्षस्व-विलोकय । किं विशिष्टानि ? सिन्दूरभरवत् छघि:-कांतिः येषा, तानि, किमिति वितर्के, स्मरवीरमुक्ताः एते बाणा वर्तन्ते । किं विशिष्टाः बाणाः ? वियोगिवक्षस्थलशोणिताक्ताः-विरहिहृदयस्थल रुधिरार्द्राः ।। ४५. तीक्ष्णांशु० । हे राजन् ! त्वं मृगाक्षीरिव लताः-वल्ली:, पश्य-विलोकय, किं कुर्वती: ? प्रेयसि सापराधे-सागसि सति, प्रसूननेत्रः-पुष्परूपनयनैः, मकरंदवाष्पान् विमुंचती:-श्रवंती:, कि क्रियमाणाः ? तीक्ष्णांशुतप्त्या-रवितापेन परितप्यमानाः । : ४६. लोलल्ल । हे राजन् ! आरात्-संनिधौ, त्वयाऽयं पांथजनो विलोक्यतां । कि विशिष्ट: पान्थजनः ? लोलल्लतामण्डपमध्यलीनः-चलवल्लीमंडपांतराश्रितः, उत्प्रेक्षते-निस्त्रिशसूनध्वजबाणघातभीत्या-निःकृपकामशरप्रहारभयेन, भीतः वस्त इव । पुनः किं विशिष्ट: ? परिलग्नतृष्ण:-व्याप्ततृषः । . ४७. अयं प० । हे राजन् ! त्वं उत्थाष्णुरजोभरत्वात्-उड्डीयमानपांसुप्रकर्षात्, त्वमिमं पशूनां समज-गवां समूह, पश्य-विलोकय । अयं पशूनां समजो लग्नतृष्णः सन्-कलितपिपासः सन्, सरस्तटं धावति । कथं ? समंतात्-सर्वतः । क इव ? कामीव । यथा कामी कान्ताधरबिम्बपित्सु:-पिपासुः, धावति । ४८. मद्धि० । हे राजन् ! भवता तत्-तस्माद्धेतोः, अयं जलाशयः नोज्झनीयः-न त्याज्यः। यदयं जलाशयः मरन्दलक्षात्-मकरन्दव्याजात्, सरोजनेत्ररिति रोदितीव । इतीति किं ? ममेषा ऋद्धिः-संपत्, कृतार्था-कृतकृत्याननाऽभवत् । मकरंदे मरंदोऽपि-इति शब्दप्रभेदे । ४६. हस्त्यश्व० । हे राजन् । भाराधिरोपात् चलनक्रमाच्च हस्त्यश्वपृष्ठ्या-गजहय बलीवनि पतंति भूमाविति शेषः । महोक्षवर्गश्च श्रम-खेदं, आबिति

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550