Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४६६
भरतबाहुबलिमहाकाव्यम्
३८. कापि कु० । कापि विलासिनी, कुड्मलहता-मुकुलताडिता, सति वल्लभोपरि-.
भर्तुरुपरिष्टात्, संभ्रमातू-वेगात्, पपात-पततिस्म । तत्सखीजन:-तस्याः वयस्याभिः, एतदीयं-अस्याः संबंधिनिस्त्रपत्वं-निर्लज्जत्वं, न हि उररीकृतंन स्वीचक्र । इयं मारिता वराकी पतत्येव ।
३६. कापि शा० । कापि कामिनी स्वेदबिन्दुसुभगं मुखं दधौ। का कमिव ?
पद्मिनी-कमलिनी मकरंदशीकरमिव । किं विशिष्टा ? वासरेश्वरकरोपतापिता-सूर्यकिरणसंतापिता, पुनः किं विशिष्टा ? शाखिशिखरं-कुसुमिततरु शृंगं, समाश्रिता-अधिरूढवती।
४०. पल्लवो० । क्षितिरुहोपि-वृक्षोपि, जारवत्-उपपतिरिक, अकंपत-कंपमासदत्
कस्मात् ? अधः-द्रुतले, एतदीयपतिलोकनाद्-एतस्याः संबंधिभर्तुर्दर्शनात्, किं विशिष्ट: क्षितिरुहः ? पल्लवोल्वणकर:-प्रवालरूपप्रकटपाणिः । पुनः किं विशिष्ट: ? प्रसूनदृक्-पुष्पलोचनः । हि-यतः, कामिनी सेविता न सुखाय स्यात् ।
४१. पुष्पशा० । काचित् बाला इति पूच्चकार । किं कुर्वती ? मन्मथाढ्यदयितांग
संगम-कामव्याप्तभर्तुर्वपुःसंयोग, इच्छंती-वांछंती, च-पुनः, किं कुर्वती ? पुष्पशाखिशिखरावरूढये-कुसुमिततरुशृंगावरोहाय, शक्नुवत्यपि समर्थी भवंत्यपि। इतीति किं ? हे नाथ ! अहमगात्-वृक्षात्, पतितास्मि ।
धारिता० । सा बाला, दृढं-गाढं यथा स्यात्तथा, प्रियभुजेन धारिता, व्यराजत-शोभतेस्म । का इव ? स्कन्धलग्नलतिकेव-स्कंधासक्तवल्लीव। किं विशिष्टा सा ? नीव्या-स्त्रीकटीवस्त्रबंधनोपकरणे, बद्ध:-कीलितः सिचयावशेषा-वसनप्रान्तो यस्या: सा। पुनः किं विशिष्टा ? ह्रीनिमीलिनयनालज्जासंकुचल्लोचना । कस्मात् ? तत्क्षणात् ।
४३. एतदी० । स-विलासी, रतीशितु:-कामस्य, अनुत्तरां-प्रधानां, तुलां-सदृशतां,
अवहत्-प्राप्नोतिस्म । केन ? अंसेन-स्कंधेन, किं विशिष्टेन अंसेन ? एतदीयकबर्या:-एतस्याः केशभारेण विराजते इत्येवंशीलः, तेन । किं विशिष्टस्य रतीशितुः ? भर्गेण-ईश्वरेण, भग्नं धनुष्-चाप: यस्य, असौ, तस्य । पुनः कि विशिष्टस्य ? स्कन्धदेशे तरवारि वहति इत्येवंशीलः, असौ, तस्य। .
४४. उच्चिता० । सुदृशां तनु:-स्त्रीणां वपुः, उच्चिताभिनवचंपकस्रजा-उत्खात
नवीनगंधफलीपुष्पमालया कृत्वा व्यरोचत-दिदीपे। किं विशिष्टा तनु: ?
Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550