Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 510
________________ पञ्जिका (सर्ग ८) २५. काचित्० । काचिदियं वधुरितिच्छलातु- कपटातु, विजन - विविक्तं, चकार ति । कृत्वा ? आत्मभर्तुः - निजनायकस्य, आगमं - आगमनं, वितर्क्सविचार्य्यं । इतीति किं ? हे प्रियालि ! - प्रियसखि !, त्वं पश्य - विलोकय, अयं - प्रेयान्, उपैति - आगच्छति, वा नैति । पश्चात् सख्यां गतायां प्रियाप्तौभर्त्तुरवापे सति, च-समुच्चये, सा कपाटं ददौ - दत्तवतीति पंचप्रकारोन्वयः । ४७७ २६. ससंभ्रमं । प्रियेण - प्रेयसा, ससंभ्रमं तूर्णं, उपेत्य - आगत्य, रिलष्टा - परिरब्धा सति काचित् कान्ता, कान्तं - दयितमिति, जहास - हसतिस्म । इतीति किं ? हे प्रिय ! या त्वदीये हृदि - मनसि स्थिता सा दयिता तुदति व्यथां प्राप्नोति, अतः अस्माद्धेतोः, त्वं गाढं - अत्यर्थं संश्लेषं - परिष्वंगं, न विधत्से । इति चतुर्भगन्वयः । २७. नखक्षतं । यूना - तरुणेन, काचिद् बाला, व्रजंती - गच्छंती, पटांते - वस्त्रप्रान्ते, विधता - गृहीता । किं कुर्वती ? मां मुंच मुंच इति रुषा - कोपेन, वदंती - जल्पंती, किं कृत्वा ? कान्ते भर्त्तरि, निजं - आत्मीयं, नखक्षतं अवेक्ष्य-दृष्ट्वा । तु-पुनः, परस्याः - अन्यस्या इति संवितर्क्स । २८. कादम्ब० । यूना - तरुणेन, काचिद् व्रजंती - गच्छंती शयनीयात् कथमपि महता कष्टेन, अरक्षि- रक्षिता । कस्माद् ? इति रोषात् - कोपात्, इति प्रतिपद्य - उक्त्वा । या, किं कृत्वा ? तदीयधाम्नि तस्य विलासिनो निलये, निजां - आत्मीयां, छायां- प्रतिबिंबं वीक्ष्य - दृष्ट्वा । किं विशिष्टा काचित् ? कादंबरीस्वादविघूर्णिताक्षी - मदिरापानपरिभ्रान्तनयना, इत्थं पूर्वस्यैव वृत्तस्य पाठान्तरं । ? २६. उपस्थि० । काचिद् बाला पत्ये- दयिताय, चुकोप - कुपितवति । किं कृत्वा ? रसायां- पृथिव्यां, लाक्षारसेनालिखितं पदं वीक्ष्य, किमर्थं ? किंचन कौतुकार्थं - किमपि कुतूहलार्थं । पुनः कस्मै ? प्रिया घे - वल्लभाकोपाय, केन ? प्रथमं - पूर्वं उपस्थितेन - आगतेन । , 1 ३०. पटीमु० । कयाचित् कांतया द्राक् - शीघ्र इति वदन् युवा जगृहे गृहीतः । इतीति किं ? इयं बाला उन्निद्रनेत्रा सखिभिर्न विधेया न कर्त्तव्या । किं क्रियमाणा ? छलेन-कपटेन निद्रामधिगम्यमाना- प्राप्यमाणा किं कृत्वा ? मुखे पटी - सिचयं, उपादाय गृहीत्वा । ३१. पराङ्मु० । नेत्रा - नायकेन, काचन कामिनी सहसा - सद्यः, अचुंबि- चुम्बिता । किं विशिष्टेन नेत्रा ? पृष्ठोपगतेन - पश्चादागतेन । किं कृत्वा ? कराभ्यां नेत्रे

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550