Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
४८४
भरतबाहुबलि महाकाव्यम्
,
सार्द्धं समादाय - गृहीत्वा प्रभाते प्रचेलुः- प्रयाणं कृतवंतः । कस्मिन् सति ? भानुमति - श्रीसूर्ये, इति - पूर्वोक्तप्रकारेण उद्यते - उदयं प्राप्ते सति ।
७४. भरत० । भरत नृपतिसैन्याम्भोनिधिः - चक्रवतिकटकसमुद्रः, एतस्य भरतस्य वा सुषेण सेनाधिपतेः, अग्रे - पुरस्तात्, संचचार-संचरितः । किं विशिष्टो भरतनृपतिसैन्याम्भोनिधि: ? स्फुटतुरगत रंगः - प्रकट हयकल्लोलः पुनः किं विशिष्टः ? तुंगमातंगनक्रः - प्रोन्नत हस्तिजलचरविशेषः पुनः किं विशिष्ट : ? रथवहनविदी - प्रश्रीभरः - स्यंदनरूपयानपात्रविराजिष्णुरमातिरेकः पुनः किं विशिष्टः ?सकलजगतिपीठस्याप्लावने उद्दामः - उत्शृंखला, शक्तिः - पराक्रमो यस्य, • असौ ।.
J
७५. शय्यां वि० । अथ - अनन्तरं भरताधिराजः - भरतचक्री, नागाधिपं - हस्तिराजं, . आरुरोह–आरूढवान् । किं कृत्वा ? कुसुमास्तरणोपपन्नां - पुष्पप्रस्तरणाकीणी, शय्यां विहाय - त्यक्त्वा । पुनः किं कृत्वा ? प्रातस्तनं - प्रभातोद्भवं, अशेषविधिसमग्र विधानं, विधाय - कृत्वा । किं विशिष्टं अशेषविधि ? पुण्यस्य उदय: - उद्भवः, यत्र, ईदृशः अर्चनभरः - पूजातिशयः यत्र, असौ, तं । किं विशिष्टं नागाधिपं ? रजतकांतं - रूप्यधवलं ।
इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे - sयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका । नैपुण्यं व्यवसायिपुण्यकुशलस्यास्यारविन्दोद्गता, या तस्यामिति सैन्यचारचतुरः सर्वोष्टमोऽजायत ।।
इति श्रीभरत बाहुबलि महाकाव्ये पञ्जिकायां सैन्यप्रस्थानवर्णनो नाम अष्टमः सर्गः ।
नवमः सर्गः:---
1
१. करैरि० । तस्य - भरतस्य, सैन्यैः - कटकैः, साकेतवनानि व्याप्यन्त - व्यानशिरे । कैरिव ? अंशोः -श्रीसूर्यस्य, करैः किरणैः इव यथा वनानि व्याप्यन्ते । किं विशिष्टस्य तस्य ? तेजस्विनः - बलवतः । सूर्यपक्षे - प्रकाशवतः । किं कुर्वद्भिः ? पुरतः - अग्रे, स्फुरद्भिः - प्रकटीभवद्भिः । पुनः किं विशिष्टैः ? कीर्णावनीचक्रनभोन्तरालैः-व्याप्तभूमंडलगगनमध्यैः पुनः किं नितान्ततीव्र :- अत्यन्ततीक्ष्णैः ।
विशिष्टैः ?
२. भूचारि० । भूचारिराजन्यबलातिरेकैः - भूचरभूपालसंबंधिसैन्योद्रेकैः, मही-भूः, ललम्बे – समाश्रिता । कैरिव ? सनयैरिव । यथा न्यायवद्भिः श्रीः - लक्ष्मीः, आलंब्यते । विद्याधरैरिति विमृश्य- विचार्य, विहायः - आकाशमाकलितं । इतीति किं ? अधुना शून्यं नभो मास्तु । इति त्रिभंगोन्वयः ।
Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550