SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४८४ भरतबाहुबलि महाकाव्यम् , सार्द्धं समादाय - गृहीत्वा प्रभाते प्रचेलुः- प्रयाणं कृतवंतः । कस्मिन् सति ? भानुमति - श्रीसूर्ये, इति - पूर्वोक्तप्रकारेण उद्यते - उदयं प्राप्ते सति । ७४. भरत० । भरत नृपतिसैन्याम्भोनिधिः - चक्रवतिकटकसमुद्रः, एतस्य भरतस्य वा सुषेण सेनाधिपतेः, अग्रे - पुरस्तात्, संचचार-संचरितः । किं विशिष्टो भरतनृपतिसैन्याम्भोनिधि: ? स्फुटतुरगत रंगः - प्रकट हयकल्लोलः पुनः किं विशिष्टः ? तुंगमातंगनक्रः - प्रोन्नत हस्तिजलचरविशेषः पुनः किं विशिष्ट : ? रथवहनविदी - प्रश्रीभरः - स्यंदनरूपयानपात्रविराजिष्णुरमातिरेकः पुनः किं विशिष्टः ?सकलजगतिपीठस्याप्लावने उद्दामः - उत्शृंखला, शक्तिः - पराक्रमो यस्य, • असौ ।. J ७५. शय्यां वि० । अथ - अनन्तरं भरताधिराजः - भरतचक्री, नागाधिपं - हस्तिराजं, . आरुरोह–आरूढवान् । किं कृत्वा ? कुसुमास्तरणोपपन्नां - पुष्पप्रस्तरणाकीणी, शय्यां विहाय - त्यक्त्वा । पुनः किं कृत्वा ? प्रातस्तनं - प्रभातोद्भवं, अशेषविधिसमग्र विधानं, विधाय - कृत्वा । किं विशिष्टं अशेषविधि ? पुण्यस्य उदय: - उद्भवः, यत्र, ईदृशः अर्चनभरः - पूजातिशयः यत्र, असौ, तं । किं विशिष्टं नागाधिपं ? रजतकांतं - रूप्यधवलं । इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे - sयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका । नैपुण्यं व्यवसायिपुण्यकुशलस्यास्यारविन्दोद्गता, या तस्यामिति सैन्यचारचतुरः सर्वोष्टमोऽजायत ।। इति श्रीभरत बाहुबलि महाकाव्ये पञ्जिकायां सैन्यप्रस्थानवर्णनो नाम अष्टमः सर्गः । नवमः सर्गः:--- 1 १. करैरि० । तस्य - भरतस्य, सैन्यैः - कटकैः, साकेतवनानि व्याप्यन्त - व्यानशिरे । कैरिव ? अंशोः -श्रीसूर्यस्य, करैः किरणैः इव यथा वनानि व्याप्यन्ते । किं विशिष्टस्य तस्य ? तेजस्विनः - बलवतः । सूर्यपक्षे - प्रकाशवतः । किं कुर्वद्भिः ? पुरतः - अग्रे, स्फुरद्भिः - प्रकटीभवद्भिः । पुनः किं विशिष्टैः ? कीर्णावनीचक्रनभोन्तरालैः-व्याप्तभूमंडलगगनमध्यैः पुनः किं नितान्ततीव्र :- अत्यन्ततीक्ष्णैः । विशिष्टैः ? २. भूचारि० । भूचारिराजन्यबलातिरेकैः - भूचरभूपालसंबंधिसैन्योद्रेकैः, मही-भूः, ललम्बे – समाश्रिता । कैरिव ? सनयैरिव । यथा न्यायवद्भिः श्रीः - लक्ष्मीः, आलंब्यते । विद्याधरैरिति विमृश्य- विचार्य, विहायः - आकाशमाकलितं । इतीति किं ? अधुना शून्यं नभो मास्तु । इति त्रिभंगोन्वयः ।
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy