________________
पञ्जिका (सर्ग)
४८३ ६६. इयं ० । इयं वराकी चक्रवाकी प्रियस्य विरहे मुहर्मुहुः-वारं वारं, रोदिति
विलपति । चरणायुधोऽपि-ताम्रचूडोऽपि इतीव घनः-सान्द्रः, विरावैः-शब्दः,
तीक्ष्णद्युति-सूर्यं, आजुहाव-आकारयामास । ६७. बभूव । निशि-रात्रौ, मानिनीनां कांतानुनयप्रणामः-प्रेयसां प्रसादनप्रणतिभिः,
या मानमुक्तिः-अहंकारपरित्यागः न बभूव, ताम्रचूडेन-निशावेदिना, रुतैःशब्दः, सा मानमुक्तिवितेने-चक्र । कथं ? सैन्यकोलाहलमनुलक्ष्यीकृत्य, किं कुर्वद्भिः ? उच्छलभिः-उल्ललद्भिः ।
६८. प्रातः प्र० । हे कान्ते !, प्रातरहं प्रयाणाभिमुखोऽस्मि । नौ:-आवयोः, पुनरपि
अमूदृक्-एतादृशः, संगः कुतः स्यात् । नेतुः-नायकस्य, उक्त्या या युवती हठं न जहौ-न परितत्याज, सा बाला कुत्कुटोक्त्या-ताम्रचूडगिरा, प्रिय-भर्तारं,
आललंबे-आश्रितवती । इति चतुर्भगोन्वयः । ... ६६. जगत्त्र० । अर्कः-सूर्यः, तं तुमुलं द्रष्टुं-विलोकयितुं, प्रथमाद्रिचूलां-पूर्वाचल
चूलिकां, अध्यारुरोहेव-आरूढवानिव। किं विशिष्टोर्कः ? रुषा-क्रोधेनेत्येवं ताम्रः-रक्तः । इतीति किं ? येन तुमुलेनाहं अकांडे-अप्रस्तावे, उज्जागरित:
उन्निद्राणीकृतः, सोऽयं तुमुलो जगत्त्रये कोऽद्य-संप्रति अस्ति । इति त्रिभंगोन्वयः । ७०. रथांग। धुपतिः-श्रीसूर्यः. करेण रजन्याः तमिस्रवासः-ध्वान्तरूपवस्त्रं,
इतीर्ण्ययेवाचकृषे-आकृषसिस्म । इतीति किं ? इयं रात्री अत्यंतदुष्टादोषवती। कस्मात् ? रथांगनाम्नो:-चक्रवाकयोः विरहप्रदानात् । तु-पुनः,
अहं मित्रोस्मि । इति त्रिभंगोन्वयः। . ७१. सरोजि० । किलेति सत्ये, वासरान्ते-दिनावसाने, सरोजिनीभिः-कमलिनीभिः,
या दशा-व्यवस्था, प्रसह्य-हठात्, अभ्यासि-स्वीचक्रे, प्रगे-प्रभाते, कुमुद्वतीभिः -कैरविणीभिः, सा दशा अभ्यासि । राज्यविपर्ययेण-राज्यव्यत्ययेन, किं वैपरीत्यं न जायेत-नोत्पद्येत ? इति त्रिभंगोन्वयः ।
७२. निशावि० । च-समुच्चये, नभस्वान्-वायुः, कामीव-कामुकवत्, मुहुः-पुनः
पुनः ननंद-मुमुदे। किं कृत्वा ? निशाविरामोन्मिषदब्जराजीमुखानि-प्रभातविकचदंभोजावलिवदनानि, संचुब्य-आस्वाद्य । किं विशिष्टे वने ? कासारस्तटाक एव वासौको-वासगृहं यत्र तत् तस्मिन् । पुनः किं विशिष्टे वने ? सौरभाट्ये-सुगंधिनि ।
७३. इत्युद्यते । ततः तदनन्तरं, भारतराजराजः-भरतचक्रवर्तिभूपालः, च-पुनः,
अन्येपि महीभुजा केचित् सुदृशः-नारी:, विहाय-परित्यज्य, केचित् समं