________________
४८२
भरतबाहुबलिमहाकाव्यम् कृत्वा-विधाय, प्राचीचलन-प्रयाणं कुर्वन्तिस्म, किं कृत्वा ? एवं विचार्यविचिन्त्य, एवमिति किं ? अधुना-अस्मिन्नवसरे रथस्योपरिष्टात् अयं चन्द्रोदयः
रोहिणीरमणोदयः, भवताद्-अस्तु । अनेन त्वराधिक्यं प्रतिपादितं । ६०. विचित्र० । पुरतो ये पदातिधुर्या:-पत्तिधौरेयाः, प्रसस्र :-प्रसरन्तिस्म । कि
विशिष्टाः पदातिधुर्याः ? विचित्रवेषाः-नानारूपवर्णनेपथ्याः, चन्द्रोदयाद् विशदैकवेषाः। पुनः किं विशिष्टाः ? किं हंसपक्षाः शिरसीति ताः-इति ऊह्याः । पुनः किं विशिष्टा: ? शिरोग्रविन्यस्तमयूरपिच्छा:-मस्तकाग्रभागसंस्थापितशिखंडिबर्हाः, अनेन चन्द्रातपस्योज्ज्वलता प्रतिपादिता।
६१. एवं त० । एवं-अमुना प्रकारेण, तदानीं-तस्मिन्नवसरे, स कोपि चतुरंगसैन्य- .
कोलाहल:-चतुर्विधबलकलकलारवः, प्रादुरभूत्-प्रकटीभवतिस्म । स कः? : येन कृत्वा · अग्रतः-पुरस्तात्, मंदरकंदरस्था:-इन्द्रकीलशैलगह्वरनिवासिन्यः, . किन्नर्यः-किन्नरयोषितः, उन्निद्रदृशः-उजागरचक्षुषो बभूवुः ।
६२. इदं गृ० । तस्य-भरतस्य, इत्यादि वचोभिः एभिः ध्वजिन्या:-सेनायाः, तुमुलः- :
कोलाहलः, ससार-वितस्तार । इतीति किं ? हे चर ! त्वमिदं गृहाण, त्वमिदं विमुंच, त्वं तिष्ठ, त्वं गच्छ, हे चर ! त्वं सद्य उपेहि-आगच्छ, हे चर ! त्वं सज्जय-सज्जीभव।
६३. निःस्वान० । स-ध्वजिनीकोलाहलः, सिन्धोः-समुद्रस्य, तटमुत्ससर्प-प्रासरत्तमां।
किं कुर्वाणः ? निःस्वानभम्भानकतूर्यनादैः प्रवर्द्धमानः-वृद्धिमाप्नुवन् । चपुनः। कैः ? अश्वेभहेषारवबृहितैः-हयगजहेषारवजितैः । क इव ? सरितां ओघ इव, यथा सरितां-नदीनां, ओघ:-प्रवाहः, झरैः-निर्भरैः, प्रवर्द्धमानः सिन्धोस्तटं उत्सर्पति ।
६४. आणि । दिक्करिभिः-दिग्गजैः, यः-ध्वजिनीतुमुलः, आकणि-श्रूयतेस्म ।
किं कृत्वा ? स्वकर्णतालैकलोलत्व-निजश्रोत्रपुटचापलं, दूरादपास्य-त्यक्त्वा, तुपुनः, सुरांगनाभिः यः सेनाकोलाहलः इत्यौहि-एवं व्यचारि। इतीति किं ? किमेतद् ब्रह्माण्डभांडं स्फुटतीव-भेदमाप्नोतीव । इति त्रिभंगोन्वयः ।
६५. सितांशु० । तेन तुमुलेन-कोलाहलेन, सितांशुवाहा:-शशांकतुरगाः, त्रस्ताः
भीताः सन्तः, अस्ताद्रि गुहां निलीनाः-अदृश्यतामापुः, अपि पुनरर्थे, शीतांशुलक्ष्मीः -चन्द्रश्रीः, भियेव राजवक्त्र-भरतवदनं, लिल्ये-लीयतेस्म । हि-निश्चितं, राजवक्त्रं अकुतोभयं-निर्भयमित्यर्थः ।