________________
पञ्जिका (सर्ग८)
४८१ नारी, निद्रां न जहाति । कस्मिन् सति ? भर्तरि-कान्ते, संनिकृष्ट-संनिधानं,
उपस्थिते-समागते सति। ५३. कराः सि० । सितांशो:-चन्द्रस्य, करा:-किरणाः, इलान्तरिक्षे-भूम्याकाशे
तथा सितीचक्रुः। किं कुर्वन्तः ? परितः-सर्वतः, स्फुरन्त:-विस्तरयन्तः । के इव ? क्षीराबुराशेः वीचिवारा:-कल्लोलसमूहा इव। यथाऽत्र-लोके,
वर्णांतरदृष्टि:-सितेतरवर्णावलोकनं नासीत् । ५४. एतद् । विधु:-चन्द्रः, निशांगनायाः-रजनीरमण्याः, तमिस्रवासः-अंधकारवस्त्रं,
सहसा-तत्कालं, चकर्ष-कृषतिस्म। किं कृत्वा ? इति विचार्य-विमृश्य । इतीति किं ? एताः कुमुदिन्यः-करविण्यः, पश्यंतु-विलोकयन्तु । किं विशिष्टा: कुमुदिन्यः ? एतद्वयस्या:-एतस्याः रजन्याः सख्यः । पुनः अंबुजिन्य:
कमलिन्यः, सुप्ताः संति । इति त्रिभंगोन्वयः । ... ५५. एवं प्र० । द्विजेन्द्रोंदये-शशांकोदये, एवं प्रविस्तारवति सति भृत्याः-किंकरा:,
इति हेतोः प्रबुद्धा:-जागरिताः। इतीति किं ? प्रगे-प्रभाते, बलं-सैन्यं, प्रतिष्ठासु-चिचलिषु विद्यते। तत्-तस्माद्धेतोः, वयं स्वकृत्यं हयगजरथपर्याणादिकं आर्दध्मः-कुर्महे । किं बिशिष्टे द्विजेन्द्रोदये ? अवदातीकृतविश्वविश्वे
विशदीकृतसकलवसुधे । इति त्रिभंगोन्वयः । ५६. श्यामा० । तदानीं-तस्मिन् समये, निषादिनोः आधोरणयोः, श्यामार्जुनाभ
द्विप्नयो:-सिताऽसितकांतिहस्तिनोः, विवादो बभूव । किं विशिष्टयोः निषादिनोः ?
जागृतयो:-नष्टनिद्रयोः। पुनः किं विशिष्टयोः ? समानतुङ्गत्वरदप्रमाण. वणक्यदत्तभ्रमयोः-सदृशोन्नतत्त्वदंतप्रमितिवणकताविश्राणितभ्रान्त्योः ।
५७. आधोर०। आधोरणा:-हस्तिपका अपि शशांके उदिते-समुद्गते सति,
मालूरफलानि-बिल्वफलानि, आदाय-गृहीत्वा, नागकर्णेषु-हस्तिश्रवणेषु, शंखभ्रमतो बबन्धुः-स्थापयामासुः । किं विशिष्टे शशांके ? क्षुभ्यत्सुधाम्भोधितरंगगौरे।
५८. विचित्र० । विचित्रवर्णा अश्वाः, उडुपोदयात्-चन्द्रोदयात्, द्राक्-शीघ्र,
स्फुटमेकवर्णाः बभूवुः । केचित् सादिनः केषांचिदश्वानां चमरान्-चामराणि, अलब्ध्वा न वाप्य, द्रशाखाः-तरुशाखाः, निगालबद्धाः-कंठसंयताः, विदधुःचक्रुः । चामरे चमरोपि च-इति ।
५६. केचिद् । अत्यमंदा-अत्युद्यमवन्तः, चन्द्रोदयशून्यं-उल्लोचरहितं, स्यन्दनं-रथं,