________________
पञ्जिका (सर्ग )
४८५
३. कृतान्त० । अथ - अनन्तरं, कान्तेन-भत्र सह व्रजंती कान्तेति न्यषेधि-निवारिता । इतीति किं ? बहलीशयुद्धं - बाहुबले राहवः, कृतान्तवक्त्रं यमाननमस्ति । तत्र युद्धे सांप्रतं - अधुना मम प्रवेशो वर्त्तते । तत् तस्माद्धेतोः हे प्रिये ! त्वं गेहं गच्छेति चतुर्भंगोन्वयः ।
४. प्रेयोव० । कांता - प्रणयिनी, कान्तं भर्त्तारं एवं निजगाद - अब्रवीत् किं कृत्वा ? प्रेयोवचः - भर्तृवचनं, आकर्ण्य - श्रुत्वा । एवमिति किं ? मम गेहं त्वयैव-भवतैव वर्त्तते । तत् तस्माद्धेतोः, हे नाथ ! त्वदीयं संनिधानं - समीपं, छायेव नाहं मुंचामि । किं विशिष्टं प्रेयोवचः ? स्फूर्जथुकल्पं - वज्रनिर्घोषसदृशं इति त्रिभंगोन्वयः ।
५. अमङ्गलं ० । कयाचित् कांतया पतदत्र - क्षरन्नेत्रांबु, अंतर् घृतं दध्रे । अस्य यियासतः - प्रयाणं चिकीर्षोः, अमंगलं मास्तु । किं कुर्वत्या ? वियोगवह्नः - विरहानलस्य, निश्वासधूमावलि उद्वहंत्या - धारयन्त्या । किं विशिष्टस्य वि० ? तेन - वाष्पजलेनैव सिक्तस्य - विध्यापितस्य ।
६. कयाच० । कयाचन बालया, द्वारि - गृहद्वारदेशे, बाहू - भुजौ, वितत्यविस्तार्य, कांतः- प्रेयान्, न्यवत्ति - न्यषेधि । कयेव ? राजहंस्येव, यथा राजहंस्या पक्षौ वितत्य प्रेयान् निषिध्यते । किं कुर्वत्या ? प्रणयेन स्नेहेन इत्युदीरयंत्याकथयत्या । इतीति किं ? हे प्रिय ! ते-तव, गमाय - प्रस्थानाय, नादिशामि ।
७. वियोग० । कोपि भट: - वीरः, स्वसौधात् न्यगाननः - नीचीकृतास्यः सन्, • जगाम - गच्छतिस्म । किं कृत्वा ? कस्याश्चन वध्वा वियोगदीनाक्षं वक्त्रमवेक्ष्य - 'दृष्ट्वा । कस्मै ? तदा एव तस्मिन्नेव समये संगराय - रणाय, किं वि० भटः ? वाष्पाम्बुपूर्णाक्षियुगः - अश्रु जलभरितनयनयुगलः ।
८. गन्तैष० । तदानीं - तस्मिन्नवसरे सख्या काचित् रुदती - विलपती, एवं व्यबोधिविज्ञापिता । एवमिति किं ? हे बाले ! भवत्याः - तव, एष दयितः - प्रेयान्, 'गंता - गमिष्यति । तत् तस्माद्धेतोः, हे सखि ! त्वमद्य मुखं दीनं मा कुरु । वीरपत्नी भव । इति चतुभंगोन्वयः ।
९. आश्लिष्य ० । काचित् कान्ता, कांतं-पति, दोर्वल्लियुगेन - भुजलतायुग्मेन, आश्लिष्य - आलिंग्य, बभाषे । किं विशिष्टा काचित् ? गलदश्रुनेत्रा - पतत्वाष्पनयना, हे नाथ ! मया बद्धः सन् त्वं कुत एवं गंता - गमिष्यसि । गजेन्द्रोऽपि बद्धः सन् वशत्वमेति - प्राप्नोति ।
१०. कुन्ताग्र० । कान्तः कांचित् कान्तामुवाच । किं विशिष्टां कांचित् ? इतीरिणीं एवं ब्रुवाणां, इतीति किं ? हे नाथ ! त्वं कुंताग्रधाराः कथं विषहिस्ये -