________________
४८६
भरतबाहुबलिमहाकाव्यम् कथं विषोढासि । यतो वृन्तं-पुष्पबन्धनं, ते-तव, अरु तुदं-मर्माभिदमस्ति । तु-पुनः, हे प्रिये !, ते-तवेदं वचोरु तुदं कुंताग्रधारात एव मे-ममास्ति ।
इति चतुर्भगोन्वयः । ११. मनो म० । हे जीवितेश !-प्राणनाथ !, मदीयं मन:-मम चित्तं, भवता-त्वया,
सह-साई, एतं-आगतं । तु-पुनः, इह अस्मिन् गेहे, तन्वा-शरीरेण मुक्तास्मि । कान्तः उवाच । हे प्रिये ! त्वयि सह ममापि हृदयं समेतं, एष साधु व्यतिहार:-..
सम्यग् व्यत्ययोऽजनि । इति पंचभंगोन्वयः ।। १२. पोतन्ति। हृदीश्वरा:-प्रणयिनः, अबलानां-स्त्रीणां, तारुण्यजले-.
यौवनांभसि, पोतंति-यानपात्रायन्ते । किं विशिष्टे तारुण्यजले ? कामचलत्तरंगे- . स्मरचरत्कल्लोले । अथ स्त्रीवचनानंतरं भर्तुर्वचनं । हे प्रिये ! यूनां-तरुणानां
अत्र-तारुण्यजले, धात्रा-विधिना, सुनेत्राकुचकुंभयुग्मं तरणाय दिष्टं-दत्तं । १३. नवैः प्र० । हे प्रिय ! नवैः प्रसूनैः शय्या परिकल्प्य-निर्माय, मया नक्तं तवैव ..
मार्गः आलोकि-ददृशे । अथ भर्तुर्वचनं । हे प्रिये ! मम तावत् प्रसूनशय्यानियम:-पुष्पशयनीयप्रत्याख्यानमस्तु, यावत् ते-तव, संग:-संगमः, न भावीन भविता।
१४. श्रृंगार० । हे प्रिय ! मे-मम, त्वया विना शृंगारयोने:-कामस्य, कुसुमानि
बाणा लोहमयाः शराः भवंति । भतुर्वचनं । हे प्रिये ! त्वया विना मम मार्गणानां-लोहमयानां कुसुममयानां च बाणानां द्वेधानुभूतिः-द्विविधोनुभवः, भवित्री-भविता। तु-पुनः, अनंगस्य-कामस्य, शरा असह्याः स्यु:सोढुमनर्हाः।
१५. आचाम० । हे प्रिय ! अहं मत्पाणिधूतव्यजनानिल:-मदीयकरांदोलितताल
वृन्तवायुभिः, ते-तव, स्वेदलवान् आचामयं । किं विशिष्टान् ? रतोत्थान्सुरतसंभवान् । अथ भर्तुर्वचनं । हे बाले ! मम संवेशनं-सुरतं, त्वद्वशंत्वदायत्तं, एवास्ति । कुत:-कस्माद्, मम स्वेदलवाः स्युः ? किं विशिष्टाः स्वेदलवाः ? तस्मात्-सुरतात्,उत्तिष्ठति-उत्पद्यते इति तदुत्थाः।
१६. स्वप्नान्तरे० । हे प्रिये ! मया त्वं प्रीतिनिमग्नदृष्टया-प्रणयांचितदशा,
स्वप्नान्तरे व्यवलोकनीयः-दृश्यः । भर्तुः प्रतिवचनं । हे प्रिये ! मम निद्रा नोपै
ष्यति-नागमिष्यति, त्वया-भवत्या विना । तहि कथं त्वमीक्ष्या-विलोक्या। १७. प्रेयो ज०। हे नाथ ! त्वं मम दूरगायाः मा विस्मारये:-मा विस्मृति